This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="24">
प्तयेऽस्तु भवतु । कथंभूता । इद्धा दीप्ता । केव । रुचिरिवाभिलाष इव । कस्य । ब्रघ्नस्य ।

अन्यस्याश्रुतत्वात् । तदेव दर्शयति —- निःशेषाः समस्ता आशा दिशः । निःशेषाश्च ता

आशाश्च तासामवपूरो भरणं तत्र प्रवणानुकूला गुरुश्चासौ गुणश्च गुरुगुणस्तेन श्लाघनी-

यस्वरूपा चेति समासः । इतरा तु रुचि : समस्तमनोरथमरणानुगुणश्लाघात्मा [न] भ-

वति । पुनरपि किंभूता । पर्याप्तमलं दिनादौ दिवसारम्भे उन्नतैव नावनता । किं त-

त्रैव, नो । किं तु दिनगमसमयोपप्लवेऽपि दिवसापायकालविपद्यपि । इतरापि रुचिर-

भिलाष उदयकाले तद्विरतौ च नोन्नमत्येव । किं च, अत्यन्तमतीव तमसान्धकारेण

साकं सहैकत्रैकस्मिन्प्रदेशे क्षणमपि मुहूर्तमपि वस्तुमासितुमनभिज्ञा अवेदित्री । इतरापि

वामसाभावेनेति ॥
 
</p>
<verse text="A" n="25">
बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौर्जित्यगुर्वीं

कुर्वाणो लीलयाघः शिखिनमपि लसच्चन्द्रकान्तावभासम् ।

[^१]आदध्यादन्धकारे रतिमतिशयिनीमावहन्वी[^२]क्षणानां

बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥ २५ ॥
 
</verse>
<p text="B" n="25">
अहर्पतेर्दिननाथस्यातप उद्दयोतो वो युष्माकं लक्ष्मीमादध्यात्कुर्यात् । आदध्यादिति

प्रार्थनायां लिङ् । किंभूताम् । अपारामपर्यन्ताम् । क इव । अपरोऽन्यो गुह इव कार्ति-

केय इव । बालोऽजरठः । किंभूतो गुहः किंभूतश्चातपः । आतपगुहयोः श्लेषं दर्शयति --

शक्तिं बिभ्राणो जगद्द्योतनसामर्थ्यं दधानः । कीदृशीम् । प्रशमितबलवत्तारकौर्जित्यगुर्वीम् ।

प्रशमितं शान्ति नीतं बलवदतीव निःशेषं तारकौर्जित्यं नक्षत्रतेजस्तेन गुर्वीम् । गुहो-

ऽपि शक्तिमायुधविशेषं बिभर्ति । बलवांश्चासौ तारकश्च बलवत्तारकोऽसुरविशेषस्त-

स्यौर्जित्यं तेजस्विता प्रशमिता यया सा प्रशमितबलवत्तारकौर्जित्या । सा चासौ गुर्वी

चेति समासः । आशु शीघ्रम् । पुनरपि किं कुर्वन् । कुर्वाण: । कम् । शिखिनं वह्निम् ।

कथम् । अधोऽधस्तात् । लीलयानादरेण तिरस्कुर्वाण: परिभवन् । कम् । शिखिनं मयू-

रमधः कुर्वाणः । लसच्चन्द्रकान्तावभासमपि । चन्द्रकान्ताश्चन्द्रमणयः । लसन्तश्च ते

चन्द्रकान्ताश्च तेषामवभासः कान्तिस्तमपि । अथ लसंश्चासौ चन्द्रश्च तस्य कान्तश्चा-

वभासश्च तमपि । शिखिनं वह्निं किंविशिष्टम्, लसच्चन्द्रं वसु सुवर्णं रत्नं वसु मणि (?)

सर्वं तस्येव कान्तः कमनीयोऽवभासो दीप्तिर्यस्य तम् । गुहोऽपि शिखिनं मयूरमधः

स्थापयति । लीलया विलासेन । किंविशिष्टम् । लसन्तो ये चन्द्रका मेचकास्तेषामन्ता-

स्तैरवभासते यस्तमपि । पुनरपि किं कुर्वन् । आवहन् । काम् । रतिं धृतिम् । किंभू-

ताम् । अतिशयिनीमधिकतराम् । केषाम् । वीक्षणानां त्रिलोचनानां कोकाभिधानविलो-

चनानाम् । क्व । अन्धकारे तमसि । संसेव्यत्वात् तेजस्तदानीमक्ष्णोः इतरत्तस्यैव संब-

न्धिना मेलनीयम् (?) । गुहोऽप्यन्धकारेः श्रीशिवस्य दृशामानन्दमादधाति । बालो डिम्भः ॥
 
[^
</p>
<footnote mark="
] ">'आदेयात्' इति पाठ:.

[^२]. 'ईक्षणानां' इति पाठ:.</footnote>
</page>