This page has been fully proofread once and needs a second look.

नेतुमिव प्रापयितुमिव । कम् । बोधं विकासम् । कानि । आशाद्विरदकरसरःपुष्कराणि ।
आशासु द्विरदा दिग्गजास्तेषां करा हस्तास्ते सरांसीव त एव वा सरांसि पुष्कराधार-
त्वात् । तेषां पुष्कराणि कराग्राणि पद्मान्यप्युच्यन्ते । तानि हि विकासयन्तीत्येवमु
क्तम् । प्रातः प्रत्युषसि प्रोढवाल्लङ्घ्यातिक्रम्य विष्णोश्चक्रिण: पदं व्योम । घृणयेव जुगुप्स-
येव । त्रिपदीकाले विष्णुना व्याप्तं तन्महतामयुक्तमेतावन्मात्राणां पदानां हरणमिति ।
पर कलपदे किल स्थातुं न युक्तमित्यतिवेगादतिरंहसो दवीयसि दूरतरे ऋतेति संबन्धः । उ-
द्दामं प्रभूतम् । क्रियाविशेषणं वा ॥
 
नो कल्पापायवायोरदयरयदलत्क्ष्माघरस्यापि [^१]गम्या
गाढोद्गीर्णोज्ज्वल श्रीरहनि न रहिता नो तमःकज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो
वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥ २३ ॥
 
उष्णत्विषस्तिग्मभानोर्दीप्तिर्द्युतिर्वो युष्मान्सुखयत्वानन्दयतु सुखिनः करोतु । किं-
भूतस्य । निखिलद्वीपदीपस्य निखिलानि समग्राणि द्वीपानि जम्बूप्रभृतीति तेषां दीप
इव दीपः । प्रकाशकत्वात् । तस्य । सैव वर्तिरन्यरूपा । अन्यद्रूपं यस्याः सान्यरूपा ।
अभिन्नरूपया दीपस्य वर्त्या भवितव्यम् । वतिः कीदृशी । वतिरिव सामान्यवर्तिरूपान,
अन्यरूपा । तद्विलक्षणेत्यर्थः । तदाह —- कल्पापायवायोरपि नो गम्या । कल्पस्यापायः
कल्पापायः कल्पान्तस्तस्य वायुः प्रलयमारुतस्तस्यापि न गमनीया । किंभूतस्य । अदय-
रयदलत्क्ष्माधरस्य । चण्डवैवेगेन दलन्तः शीर्यमाणाः क्ष्माधराः पृथ्वीधरा यस्मिन्वायौ
तस्य तथोक्तस्य प्रचण्डवेगस्फुटद्गिरेः । पुनः किंभूता । अहनि दिवसे, गाढोद्गीर्णोज्ज्व-
लश्रीर्गाढा उद्गीर्णा उज्ज्वला श्रीर्यया सा गाढोद्गीर्णोज्ज्वलश्रीभृंर्भृशोद्वान्तनिकामदीप्त-
कान्तिः । किं च न न रहिता न न वर्जिता तमःकज्जलेन तिमिरमध्या । अपि तु र-
हितैवेत्यर्थः । अन्यच्च, प्राप्तोत्पत्तिर्लब्धजन्मा । कस्मात् । पतङ्गाद्दिनपतेः । न पुनरुप-
गता नैव प्राप्ता । कम् । मोषं खण्डनम् । इतरा तु वर्तिर्वायुगम्या भवति । दिवसे गा-
ढोद्गीर्णोज्ज्वलश्रीर्न भवति । कज्जलेन रहिता न च । पतङ्गाच्छलभान्मोषमुपैति नोत्प-
त्तिमिति व्यतिरेकः ॥
 
निःशेषाशावपूरप्रवणगुरुगुणश्लाघनीय स्वरूपा
पर्याप्तं नोदयादौ दिनगमसमयोप्लवेऽप्युन्नतैव ।
अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकत्र वस्तुं
ब्रध्नस्येद्धा रुचिर्वो रुचिरिव [^२]रुचितस्याप्तये वस्तुनोऽस्तु ॥ २४ ॥
 
ब्रध्नस्य सूर्यस्य रुचिर्दीप्ती रुचितस्याभिलषितस्य वस्तुनः पदार्थस्य वो युष्माकमा-
 
[^१] 'शम्या' इति पाठः, 'विनाश्या' इति वल्लभव्याख्या.

[^२] 'रुचिरस्य' इति पाठ:.