2025-12-12 15:15:11 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p text="B" n="20">किं च स व्यक्तलक्षणः प्रालेयपादो हिमप्रधानप्रत्यन्तनगोऽचलः पर्वत एव न विलयमेति
न विलीयते द्रवति अपि तु चन्द्रमा अपि विलयमेति म्लानिं विच्छायतां याति ।
प्रालेयपादो हिमकिरणश्चन्द्रमा अपि । बन्धो मुकुलभावो न हि सिद्धाञ्जलीनामेव ।
सिद्धा देवविशेषाः । अञ्जलय उभयकरविन्यासः । तेषां बन्धो रचना । सिद्धा हि
भगवन्तमुपतिष्ठमाना अञ्जलोन्विदधति । न हि सिद्धाञ्जलीनां बन्धो भवति, अपि तु
कुमुदवनस्यापि । कुमुदान्यपि तस्मिन्काले मीलन्ति संकोचं यान्ति । प्रातः प्रभाते ।
कीदृशं तद्धाम । प्रेक्षणीयं प्रेक्षणार्हं रमणीयमिति ॥
</p>
<verse text="A" n="21">यत्कान्तिं पङ्कजानां न हरति कुरुते प्रत्युताधिक्यरम्यां
नो[^१] धत्ते तारकाभां तिरयति नितरामाशु यन्नित्यमेव ।
कर्तुं नालं निमेषं दिवसमपि परं यत्तदेकं त्रिलोक्या-
श्चक्षुः सामान्यचक्षुर्विसदृशमघभिद्भास्वतस्तान्महो वः ॥ २१ ॥
</verse>
<p text="B" n="21">भास्वतो रवेस्तन्महस्तत्तेजो वो युष्माकमघभित्पापविनाशि स्ताद्भवतु । किंभूतम् । त्रि-
लोक्या लोकत्रयस्यैकमद्वितीयं चक्षुर्लोचनमिव । किंविशिष्टम् । सामान्यचक्षुर्विसदृशं प्राकृ-
तलोचनविलक्षणम् । तदेव वैलक्षण्यं दर्शयति-- यत्कान्ति पङ्कजानां पद्मानां न हरति न
च्छिनत्ति प्रत्युत विशेषेणाधिक्यरम्यामतिशयरमणीयां महत्प्रभां कुरुते । इतरत्तु चक्षुः
कान्ति पङ्कजानामादत्ते तदनुकारं किल तद्भवतीति । तथा नो धत्ते न पुष्णाति । ता-
रकाभां नक्षत्रद्युतिम् । तिरयति तिरस्करोति । नितरामतीव । आशु शीघ्रम् । नित्य-
मेव सदैव । इतरत्तु तारका कनीनिका तथा आभां शोभां धत्ते पुष्णाति । निमेषं का-
लविशेषं कर्तुमुत्पादयितुमेव नालं समर्थम्, किं तु दिवसमपि । परमुत्कृष्टमेव । इतरत्तु
मुहूर्तमपि निर्निमेषं न भवतीति व्यतिरेकः ॥
</p>
<verse text="A" n="22">क्ष्मां क्षेपीयः क्षपाम्भःशिशिरतरज[^२]लस्पर्शतर्षादृतेव
द्रागाशा नेतुमाशाद्विरदकरसरःपुष्कराणीव बोधम् ।
प्रातः प्रोल्लङ्घ्य विष्णोः पदमपि घृणयेवातिवेगाद्दवीय-
स्युद्दामं द्योतमाना दहतु दिनपतेर्दुर्निमित्तं द्युतिर्वः ॥ २२ ॥
</verse>
<p text="B" n="22" merge-text="true">दिनपतेर्भास्वतो युतिर्दीप्तिर्वो युष्माकं दुर्निमित्तमशुभं दहतु भस्मींकरोतु । किं
कुर्वती।उद्यामं द्योतमाना। किंभूता । क्ष्मां पृथ्वीमृता गता प्राप्ता । 'ऋ गतौ' । क्षेपीयः
क्षिप्रतरम् । कस्मादिव । क्षपाम्भःशिशिरतरजलस्पर्शतर्षादिव । क्षपाम्भोऽवश्यायजलं
तेन शिशिरतरं शीतलतरं च तज्जलं च तस्य स्पर्शस्तत्र तर्षोऽभिलाषस्तस्मादिवेत्यु -
त्प्रेक्षा । पुनरपि किंभूता । आशा दिशः ऋतेति संबन्धः । द्राक् शीघ्रम् । किं कर्तुमिव ।
[^</p>
<footnote mark="१] ">'नाधत्ते' इति पाठ:.
[^२] 'तल' इति पाठः, 'निशाजलातिशीतलभूपृष्ठसंपर्का-
भिलाषात्' इति वल्लभव्याख्यानम्.</footnote>
</page>

[^
<footnote mark="१