This page has been fully proofread once and needs a second look.

१२
 
काव्यमाला ।
 
किं च स व्यक्तलक्षणः प्रालेयपादो हिमप्रधानप्रत्यन्तनगोऽचलः पर्वत एव न विलयमेति

न विलीयते द्रवति अपि तु चन्द्रमा अपि विलयमेति म्लानिं विच्छायतां याति ।

प्रालेयपादो हिमकिरणश्चन्द्रमा अपि । बन्धो मुकुलभावो न हि सिद्धाञ्जलीनामेव ।

सिद्धा देवविशेषाः । अञ्जलय उभयकरविन्यासः । तेषां बन्धो रचना । सिद्धा हि

भगवन्तमुपतिष्ठमाना अञ्जलोन्विदधति । न हि सिद्धाञ्जलीनां बन्धो भवति, अपि तु

कुमुदवनस्यापि । कुमुदान्यपि तस्मिन्काले मीलन्ति संकोचं यान्ति । प्रातः प्रभाते ।

कीदृशं तद्धाम । प्रेक्षणीयं प्रेक्षणाई रमणीयमिति ॥
 

 
यत्कान्ति पङ्कजानां न हरति कुरुते प्रत्युताधिक्यरम्यां

नो'[^१] धत्ते तारकाभां तिरयति नितरामाशु यन्नित्यमेव ।

कर्तुं नालं निमेषं दिवसमपि परं यत्तदेकं त्रिलोक्या-

श्क्षुः सामान्यचक्षुर्विसदृशमभिनाद्भास्वतस्तान्महो वः ॥ २१ ॥

 
भास्वतो रवेस्तन्महस्तत्तेजो वो युष्माकमघभित्पापविनाशि स्ताद्भवतु । किंभूतम् । त्रि-

लोक्या लोकत्रयस्यैकमद्वितीयं चक्षुर्लोचनमिव । किंविशिष्टम् । सामान्यचक्षुर्विसदृशं प्राकृ-

तलोचनविलक्षणम् । तदेव वैलक्षण्यं दर्शयति-- यत्कान्ति पङ्कजानां पद्मानां न हरति न

च्छिनत्ति प्रत्युत विशेषेणाधिक्यरम्यामतिशय्ररमणीयां महत्प्रभां कुरुते । इतरत्तु चक्षुः

कान्ति पङ्कजानामादत्ते तदनुकारं किल तद्भवेतीति । तथा नो धत्ते न पुष्णाति । ता-

रकाभां नक्षत्रद्युतिम् । तिरयति तिरस्करोति । नितरामतीव । आशु शीघ्रम् । नित्य-

मेव सदैव । इतरत्तु तारका कनीनिका तथा आभां शोभां धत्ते पुष्णाति । निमेषं का-

लविशेषं कर्तुमुत्पादयितुमेव नालं समर्थम्, किं तु दिवसमपि । परमुत्कृटमेव । इतरत्तु

मुहूर्तमपि निर्निमेषं न भवतीति व्यतिरेकः ॥
 

 
क्ष्मां क्षेपीयः क्षपाम्भःशिशिरतर जैज[^२]लस्पर्शतर्षादृतेव
 

द्रागाशा नेतुमाशाद्विरदकरसरः पुष्कराणीव बोधम् ।

प्रातः प्रोडवय विष्णोः पदमपि घृणयेवातिवेगाद्दवीय-

 

स्युद्दामं द्योतमाना दहतु दिनपतेर्दुर्निमित्तं द्युतिर्वः ॥ २२ ॥

 
दिनपतेर्भास्वतो युतिर्दीप्तिर्वो युष्माकं दुर्निमित्तमशुभं दहतु भस्मींकरोतु । किं

कुर्वती।उद्यामं द्योतमाना। किंभूता । क्ष्मां पृथ्वीमृता गता प्राप्ता । 'ऋ गतौ' । क्षेपीयः

क्षिप्रतरम् । कस्मादिव । क्षपाम्भः शिशिरतरजलस्पर्शतर्षादिव । क्षपाम्भोऽवश्यायजलं

तेन शिशिरतरं शीतलतरं च तजलं च तस्य स्पर्शस्तत्र तर्षोऽभिलाषस्तस्मादिवेत्यु -

त्प्रेक्षा । पुनरपि किंभूता । आशा दिशः ऋतेति संबन्धः । द्राक् शीघ्रम् । किं कर्तुमिव ।
 

 
[^
.] 'नाधत्ते' इति पाठ:.
 
[^
.] 'तल' इति पाठः, 'निशाजलातिशीतलभूपृष्ठसंपर्का-

भिलाषात्' इति वल्लभव्याख्यानम्.