This page has been fully proofread once and needs a second look.

क्कालापेक्षया दिक् प्राच्यादिः कालः पूर्वाह्लाणादिः प्राच्यां दिशि पूर्वाह्नेणे दृश्यत इति नव
उच्यते । परमार्थतस्त्वनवः पुराण: व्यपदेशशून्योऽसौ । तिग्मभानोस्त्रिभुवनमटतो ग-
च्छतोऽतिक्रामतः ॥
 
मा गान्म्लानिं मृणालीमृदुरिति दययेवाप्रविष्टोऽहिलोकं
लोकालोकस्य पार्श्वं प्रतपति न परं यस्तदाख्यार्थमेव ।
ऊर्ध्वं ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्घ्यो द्युसीम्नि
स्वेच्छावश्यावकाशावधिरवतु स वस्तापनो रोचिरोघः ॥ १९ ॥
 
रोचिषामोघो रोचिरोघो दीप्तिपुञ्जः । स तापनः सूर्यसंबन्धी मयूखत्रातो वो गुष्मा-
नवतु रक्षतु । किंभूतः । यो न प्रविष्टोऽहिलोकं फणिसद्म । किमिति । मा गान्मा यासी-
दिति म्लानिं पीडामयमहिलोको मृणालीकोमलः । ततो यद्यहं पातालं गच्छेयं तदा
नूनमयं म्लानिं यास्यतीति । दयया कृपया । लोकालोकस्य परं पार्श्वं तदाख्यार्थमेव
तत्संज्ञार्थमेव न प्रतपति न प्रकाशयति । तस्य हि लोकालोकसंबन्धात्तदभावाच्च लो-
कश्च स आलोकश्च सः । अर्वाचीने पार्श्वे यत्र भगवान्प्रतपति तत्र लोका विद्यन्ते ना-
परत्र : यदि तत्रापि भगवान्प्रतपति तदा सोऽपि लोक एव स्यात् । तदालोकालोक
इत्याख्या तस्य नश्येत् । अनेन कारणेन तस्य परं पार्श्वं न प्रतपति । ऊर्ध्वमुपरिष्टाद्ब्रह्मा-
ण्डखण्डस्फुटनभयपरित्यक्तदैर्ध्यः । ब्रह्माण्डखण्डस्य स्फुटनं दलनं तस्माद्भयं तेन परि-
त्यक्तं दैर्ध्यं द्राघिमा येन स तथोक्तः । क्व । द्युसीम्नि गगनमर्यादायाम् । दिवः सीमा द्यु-
सीमा तस्मिन् । किंविशिष्टः । स्वेच्छावश्यावकाशावधिः । स्वेच्छावश्यो वशंगतोऽवका-
शावधि: स्थानमर्यादा यस्य सः ॥
 
अश्यामः काल एको न भवति भुवनान्तोऽपि [^१]वीतेऽन्धकारे
सद्यः प्रालेयपादो न विलयमचलश्चन्द्रमा अप्युपैति ।
बन्धः सिद्धाञ्जलीनां न हि कुमुदवनस्यापि यत्रोज्जिहाने
तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥ २० ॥
 
दिनपतेरादित्यस्य तद्धाम तत्तेजो वो युष्मभ्यं कामाधिकमभिलाषाधिकं दिशतु य-
च्छतु । कामाधिकं सामर्थ्यात्प्रस्तावात्प्रार्थितमेव । यत्र यस्मिन्धान्म्युज्जिहाने उद्गच्छति
सति न खल्वहर्लक्षणः काल एवाश्यामो भवति अपि तु भुवनान्तोऽपि । कालस्याश्या-
मत्वं श्यामा रात्रिस्तद्रहितत्वम् । न विद्यते श्यामास्मिन्निति कृत्वा । तेजस्युद्गच्छत्य-
हर्लक्षणः कालो भवति तस्य राज्जत्र्या सहानवस्थानलक्षणो विरोध इत्यश्यामः । भुव-
नान्तः पुनः श्यामगुणरहितः । कस्मिन्नवसरे । अन्धकारे तमसि वीते विगते सति ।
'वीतान्धकारः' इति पाठान्तरम् । तत्र वीतं गतमन्धकारं यस्मादवसरादिति योज्यम् ।
 
[^१] 'वीतान्धकार : ' इति पाठः,