This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="16">
विकासिसरोरुहान्तरालसुखोपविष्टेनेव । मा संकोचदुःस्थितिं कामपि कार्षीदितीव ।

तथा कृष्णेन विष्णुना ध्वान्तकृष्णस्वतनुपरिभवत्रस्नुनेव तिमिरश्यामनिजशरीरपरिभूति-

त्रसनशीलेनेव । अलमत्यर्थम् । इवशब्दः सर्वत्रोत्प्रेक्षायाम् । एव ध्वान्तभ्रान्त्या ममैव

तनुं परिभूयादितीव । आद्यैरपि देवैः स्तुत इति महत्त्वं रवेर्दर्शयति ॥
 
</p>
<verse text="A" n="17">
विस्तीर्णं व्योम दीर्घाः सपदि दश दिशो व्यस्तवेलाम्भसोऽब्धी-

न्कुर्वद्भिर्दृश्यनानानगनगरनगाभोगपृथ्वीं च पृथ्वीम् ।

पद्मिन्युच्छ्वास्यते यैरुषसि जगदपि ध्वंसयित्वा तमिस्रा-

मुस्रा वि[^१]स्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥ १७ ॥
 
</verse>
<p text="B" n="17">
ते सहस्रत्विषः सहस्ररश्मेरुस्रा गभस्तयोऽनभिमतं दुःखं विस्रंसयन्तु ध्वंसयन्तु । वो

युष्माकम् । द्रुतं शीघ्रम् । यैः पद्मिनी जगच्चोषसि प्रातःकाले उच्छ्वास्यते । ध्वंसयित्वा ।

काम् । तमिस्रामन्धकारं रात्रिं वा । किं कुर्वद्भिः । विस्तीर्णं पृथुलं व्योम गगनम्, दीर्घा

आयता दश दिशो दशाशाः, सपदि तत्क्षणं व्यस्तवेलाम्भसोऽब्धीन् विक्षिप्तवेलाजला-

न्समुद्रान्कुर्वद्भिः । पृथ्वीं च घरां कुर्वद्भिः । कथंभूताम् । दृश्यनानानगनगरनगाभोगपृ-

थ्वीम् । नगाः पर्वताः नगराणि पत्तनानि नगा वृक्षास्ते च ते नानाप्रकाराश्चेति समासः ।

दृश्या उपलभ्याः । दृश्याश्च ते नानानगनगरनगास्तेषामाभोगो विस्तारस्तेन पृथ्वीं वि-

स्तीर्णाम् ॥
 
</p>
<verse text="A" n="18">
अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो

विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि ।

दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां

यातः शातक्रतव्यां दिशि दिशतु शिवं सोऽर्चिषामुद्गमो वः ॥ १८ ॥[^२]
 
</verse>
<p text="B" n="18" merge-text="true">
तिग्मभानोरादित्यस्यार्चिषां भासामुद्गम उदयो वो युष्मभ्यं शिवं कल्याणं दिशतु य-

च्छतु । किंविशिष्टोऽसौ । विश्वं जगत्प्रतिहततिमिरं कर्तुमीश: । एकदेशस्थितोऽप्येकदेशे

वर्तमानोऽपि । एकदेशस्थितस्यापि तिमिरोच्छेदकारित्वं प्रदीपेन समानो धर्मः । प्रदीपो

वेश्मेव । सामान्यदीपात्किंचिदधिकोऽयम् । अस्तव्यस्तत्वशून्यः । अस्तो विनाशस्तेन

व्यस्तत्वं व्यसनं तेन शून्यो न भवति । विनाशे नासौ बाध्यते । निजरुचिश्च न भवति ।

किं त्वनिजरुचिः । तैलादिना आधीयमानत्वात् । तथा अनिशा दिवसस्तत्र नश्वरो-

ऽसौ । अस्तव्यस्तत्वशून्य इति । न स्तव्योऽस्तव्योऽस्तवार्हः । तथा तत्त्वशून्यश्च प्र-

दीपः । अर्चि॒षामुद्गमस्तु स्तव्यस्तत्त्वभूतश्चेति । किंभूतः । नवाख्यां प्रत्यग्रव्यपदेशं यातो

गत इति । क्व । दिशि ककुभि । किंभूतायाम् । शातऋतव्यां पौरन्दर्याम् । तथा दि-
 
[^
</p>
<footnote mark="
] ">'विस्रावयन्तु' इति पाठ:.

[^२] वल्लभदेवटीकायामस्माच्छलोकादनन्तरम् इति र-

श्मिवर्णनम्' इत्यस्ति.</footnote>
</page>