2023-02-23 18:32:28 by ambuda-bot
This page has not been fully proofread.
सूर्यशतकम् ।
शोषिणोऽपि श्रममिव दधतः खेदमिव दधाना बिभ्राणाः । श्रमाधाने हेतुमाह-आवृ
त्तिभ्रान्तविश्वाः । आवृत्त्या पौनः पुन्येन भ्रान्तं पर्यटितं विश्वं जगद्यैस्ते तथोक्ताः ।
क्व । ग्रीष्मे निदाघकाले । शोषिणः स्वोष्मणेव । पुनरुत्प्रेक्षते – दावाग्नितता इव, जल-
मतीव नरा धयन्ति तद्वदेते इत्युत्प्रेक्षिताः । तेऽभीशव: प्राकृषि वर्षाकाले उद्वान्ततोया
उद्गीर्णपयस्का: । किंभूताः । आत्तपानातिशयरुज इव आत्ता प्राप्ता पानातिशयरु-
ग्यैस्ते । हिमर्तौ हेमन्तेऽप्रचण्ड़ा मन्दा अपटवः । यथा कोऽपि पानीयपानातिशयात्प्रा
तवेदनो मन्दो भवति तद्वतेऽपि ॥
1
तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था-
मारूढप्रौढिलेशोत्कलितकपिलिमालंकृतिः केवलैव ।
उज्जृम्भाम्भोजनेत्रद्युतिनि दिनमुखे किंचिदुद्भिद्यमाना
श्मश्रुश्रेणीव भासां दिशतु दशशती शर्म घर्मत्विषो वः ॥ १९ ॥
भासां दीघितीनां दशशती घर्मत्विषः सूर्यसंबन्धिनी वो युष्मभ्यं शर्म सुखं कल्याणं
दिशतु यच्छतु । केव । श्मश्रुश्रेणीव, मुखरोमराजिरिव । किं कुर्वती । किंचिदुद्भिद्यमाना
उद्गच्छन्ती । कस्मिन् । दिनमुखे । अन्यत्र यूनां मुखे उद्भिद्यते । किं कुर्वाणा । तन्वाना
विस्तारयन्ती । काम् । अवस्थाम् । कासाम् । दिग्वधूनाम् । दिश एव वध्वस्तासाम् ।
कीदृशीम् । समधिकमधुरालोकरभ्याम् । समधिकः सम्यगधिको मधुरो मृदुर्य आलोकः
प्रकाशस्तेन रम्याम् । पुनरपि किंभूता । आरूढप्रौढिलेशोत्कलितकपिलिमा । प्रौढिः
प्रौढत्वं तस्या लेशः आरूढश्चासौ प्रौढिलेशश्चेति समासः । तेनोत्कलितो वर्धितः क
पिलिमा कपिलत्वं यस्याः सा तथोक्ता । अलंकृतिर्भूषणम् । केवलैव एकैव । किंभूते
दिनमुखे । उज्जृम्भा विकासिन्यम्भोजनेत्रद्युतिर्यत्र तत्तथोक्तं तत्रेति । इमश्रुश्रेण्या अपि
सर्वमेतत्संबन्धनीयम् । सापि वधूनां समधिकमधुरामालोकरम्यामवस्थां वितनुते । आ-
रूढप्रौढिलेशोत्कलितकपिलिमा भवति । अलंकृतिश्चासौ केवलैव मुखस्य संपद्यत इ-
त्यादि समानम् ॥
मौलीन्दोर्मेष मोषीय तिमिति वृषभाङ्गेन यः शङ्किनेव
प्रत्यग्रोद्घाटिताम्भोरुहकुहरगुहासुस्थितेनेव धात्रा ।
कृष्णेन ध्वान्तकृष्णस्वतनुपरिभवत्रस्नेव स्तुतोऽलं
त्राणाय स्तात्तनीयानपि तिमिररिपोः स त्विषामुद्गमो वः ॥ १६ ॥
तिमिररिपोरादित्यस्य स त्विषां भासामुद्गम उदयस्त्राणाय रक्षायै वो युष्माकं स्ताद्भ-
वतात् । तनीयानपि तनुतरोऽपि । किंभूतः । यः स्तुतः । केन । वृषभाङ्केन पिनाकिना ।
शङ्किनेव । किमिति । मौलीन्दोमलिचन्द्रस्यैषोऽयं द्युतिं प्रभां मा मोषीन्मा खण्डय-
त्विति । धात्रा ब्रह्मणा च यः स्तुत इति संबन्धः । किंभूतो नुतः । प्रत्यग्रेति । तत्क्षण-
२