This page has not been fully proofread.

काव्यमाला ।
 
सत्यो रोचनाम्बुत्वेनेति । पुनः किंभूताः । अर्च्यमानाः सस्पृहमीक्ष्यमाणाः । कैः । चक्र-
नाम्नां लोचनाञ्चलैर्नेत्रप्रान्तैः । अविचलैनिश्चलैः । कथम् । चतुरं विदग्धं यथा भवति ।
चाटूत्कैश्चाटुकाङ्क्षिभिः । चक्रवाकाणां हि भगवति गभस्तिमालिन्यभ्युदिते सति वियु -
क्तानां परस्परं समागमो भवतीति सादरं तद्रुचोऽर्च्यन्त इत्येवमभिहितम् । अचरमा
अप्राचीनाः ॥
 
एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्सब्जजास्यैश्चतुर्भि
र्भूतानां पञ्चमं यान्यलमृतुषु तथा षटसु नानाविधानि ।
युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो-
.
 
र्यान्ति प्राह्णे नवत्वं दश देधतु शिवं दीधितीनां शतानि ॥ १३ ॥
भानो: संबन्धीनि दीधितीनां दश शतानि सहस्रमिति यावत् । युष्माकं शिवं भद्रं
दधतु पुष्णन्तु कुर्वन्तु वा । अनेकार्थत्वाद्धातूनामिति । किंभूतानीत्याह—यानि एकं
ज्योतिरेकं तेजः प्रधानमालोककारणम् । पुनरपि कीदृशानि, दृशौ द्वे चक्षुषी द्वे । त्रि-
जगति त्रैलोक्ये गदितानि कथितानि । कैः, अब्जजास्यैः कमलयोनिवदनैः । कि-
यद्भिः, चतुर्भिश्चतुःसंख्योपेतैः । भूतानां पृथिव्यादीनां पञ्चमम् । पञ्चानां भूतानां ते-
जसि सति पञ्च संख्या संपद्यते । तथा ऋतुषु वसन्तादिषु षट्स्वलमत्यर्थे नानाविधान्यु-
च्चावचप्रकाराणि । तीव्रमन्दादिभेदेन भिद्यमानत्वात् । पुनरपि किंभूतानि । सप्तत्रिद-
शमुनिनुतानि त्रिदशमुनयो देवर्षयोऽत्रिप्रभृतयः सप्त च ते त्रिदशमुनयश्च तैर्नुतानि ।
भूयोऽपि किंभूतानि । अष्टदिग्भाजि अष्टाशाश्रितानि । पूर्वाह्ने दिनमुखे नवत्वं प्रत्यग्रत्वं
यान्ति भजन्ते । पूर्वं ज्योतिस्त्वेनैकत्वम् । पुनर्हक्त्वेन द्वित्वम् । भुवनत्वेन त्रित्वम् ।
चतुर्षु ब्रह्मवत्रेषु चतुःसंख्यात्वम् । पृथिव्यादिरूपतया पञ्चधा । वसन्तादिसंख्यायाः ष
त्वम् । अत्रिप्रभृतिभिः सप्तत्वम् । तीव्रमन्दादिभेदेन नानात्वम् । अष्टदिग्भाक्त्वेनाष्ट-
त्वम् । आश्रयभेदाद्भेदः । पूर्वाह्णे नवत्वमिति शब्दसाम्यान्नवत्वं नवसंख्यायोगिता प्रद-
शिंतेति ॥
 
आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणेव
ग्रीष्मे दावाग्रितप्ता इव रसमसकृद्ये धरित्र्या धयन्ति ।
ते प्रावृष्यात्तपानातिशयरुज इवोद्वान्ततोया हिमत
 
मार्तण्डस्याप्रचण्डाश्चिरमशुभभिदेऽभीशवो वो भवन्तु ॥ १४ ॥
मार्तण्डस्य भानोरभीशवो दोधितयो वो युष्माकमशुभभिदेऽकल्याणविनाशाय भ-
वन्तु जायन्ताम् । चिरं बहुकालम् । किंविशिष्टाः । ये धरित्र्या भुवो रसं जलं धयन्ति
पिबन्ति । असकृदनेकवारम् । किंभूता इव धयन्ति । शोषिण इव शोषयुक्ता इव ।
 
१. 'ददतु' इति पाठः.