This page has been fully proofread once and needs a second look.

<page>
<p text="B" n="8">
श्रितपर्वताग्रभागाः । अथवा श्रिताः शिखरिण्यः शिखा यैस्ते । किं कुर्वन्तः । प्रेङ्खन्तो

गच्छन्तः । क्व। खे व्योम्नि । खचितदिनमुखाः स्पष्टीकृतदिवसप्रारम्भाः ॥
 
</p>
<verse text="A" n="9">
दत्तानन्दाः प्रजानां समुचितसमया[^१]कृष्टसृष्टैः पयोभिः

पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यन्हि संहारभाजः ।

दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो

गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ ९ ॥
 
</verse>
<p text="B" n="9">
दीप्तांशोरादित्यस्य संबन्धिन्यो गावो दीधितयो वो युष्माकं प्रीतिं सुखमुत्पादयन्तु

जनयन्तु । किंभूताः । दत्तानन्दाः दत्तो वितीर्ण आनन्दो याभिस्ताः । कासाम् । प्र-

जानां लोकानाम् । कैः कृत्वा । पयोभिर्जलैः । समुचितसमयाकृष्टसृष्टैः समुचितो योग्यः

समयः कालस्तत्राकृष्टसृष्टैः । भूयोऽपि विशेष्यन्ते– -पूर्वाह्ने विप्रकीर्णाः अह्नः पूर्वो भा -

गस्तत्र विक्षिप्ताः । क्व । दिशि दिशि सर्वासु दिक्षु । विरमत्यन्हि याति दिवसेऽस्तमनस-

मये संहारभाजः संहृतिमाश्रिताः । पुनरपि किंभूताः । दीर्घदुःखप्रभवभवभयोदन्वदुत्ता-

रनावः । दीर्घं च तद्दुःखं च तस्य प्रभव उत्पत्तिस्थानं स चासौ भवश्च संसारस्तस्मा-

द्भयं तदेवोदन्वान्समुद्रस्तस्मादुत्तारस्तत्र नावो यानपात्राणि । पावनानां पावकानां प-

रमुत्कृष्टम् । किंभूतां प्रीतिम् । अपरिमितामपर्यन्ताम् । गाव इति श्लिष्टमेतदभिन्नम् ।

गावो धेनवश्चोच्यन्ते । ता अपि पयोभिर्दुग्धैः समुचितसमयाकृष्टसृष्टैः प्रजानां दत्ता-

नन्दा भवन्ति । पूर्वाण्हे प्रत्युषसि विप्रकीर्णा भवन्ति । अन्होऽवसाने संहारभाज: । दी-

र्घदुःखप्रभवभवभयोदन्वदुत्तारनावश्च दत्ताः सत्यः सद्यः । तदीयैः पयोभिर्विप्राग्नितर्पणै-

र्लोकाः संसारं तरन्तीत्यागमविदः ॥
 
</p>
<verse text="A" n="10">
बन्धध्वंसैकहेतुं शिरसि नतिरसाबद्धसंध्याञ्जलीनां

लोकानां ये प्रबोधं विदधति विपुलाम्भोजखण्डाशयेव ।

युष्माकं ते स्वचित्तप्र[^२]थितष्टथुतरप्रायार्थनाकल्पवृक्षाः

कल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य ॥ १० ॥
 
</verse>
<p text="B" n="10" merge-text="true">
दिनकरकिरणा रविपादा भवतां कल्मषस्य पापस्य केतवो विनाशका: कल्पन्तां

संपद्यन्ताम् । निर्विकल्पमसंशयम् । क्रिविशेषणमिदम् । स्वं च चित्तं च स्वचित्तं

तस्य प्रथिता पृथुतरा पृथ्वी सा चासौ प्रार्थना च तस्याः कल्पवृक्षाः । ये लोकानां

प्रजानां प्रबोधं तत्त्वज्ञानं विदधति कुर्वन्ति । बन्धस्त्रिविधः -- प्राकृतो वैकारिको दक्षि-

णासा(?) रूपश्चेति । तेन हि बद्धा देहिनो न मुच्यन्ते । तस्य ध्वंसो नाशस्त त्रैक हेतुः
 
[^
</p>
<footnote mark="
] ">'अक्लिष्टसृष्टैः' इति पाठः, 'समुचिते योग्ये समये वर्षाख्ये अक्लिष्टमयाच्ञया'

इति वल्लभव्याख्या.

[^२] 'प्रथिमपृथुतर' इति पाठः, 'स्वं भवतां यच्चित्तं तस्य यः प्र-

थिमा विस्तारस्तद्वत्' इति वल्लभव्याख्या.</footnote>
</page>