2023-02-23 18:32:27 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
श्रितपर्वताग्रभागाः । अथवा श्रिताः शिखरिण्यः शिखा यैस्ते । किं कुर्वन्तः । प्रेङ्खन्तो
गच्छन्तः । क्व। खे व्योम्नि । खचितदिनमुखाः स्पष्टीकृतदिवसप्रारम्भाः ॥
दत्तानन्दाः प्रजानां समुचितसमयांकृष्टसृष्टैः पयोभिः
पूर्वाह्ने विप्रकीर्णा दिशि दिशि विरमत्यहि संहारभाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो
६
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ ९ ॥
दीप्तांशोरादित्यस्य संबन्धिन्यो गावो दीधितयो वो युष्माकं प्रीतिं सुखमुत्पादयन्तु
जनयन्तु । किंभूताः । दत्तानन्दाः दत्तो वितीर्ण आनन्दो याभिस्ताः । कासाम् । प्र
जानां लोकानाम् । कैः कृत्वा । पयोभिर्जलैः । समुचित समयाकृष्टसृष्टैः समुचितो योग्यः
समयः कालस्तत्राकृष्टसृष्टैः । भूयोऽपि विशेष्यन्ते– पूर्वाह्ने विप्रकीर्णाः अह्नः पूर्वो भा -
गस्तत्र विक्षिप्ताः । क्व । दिशि दिशि सर्वासु दिक्षु । विरमत्यहि याति दिवसेऽस्तमनस-
मये संहारभाजः संहृतिमाश्रिताः । पुनरपि किंभूताः । दीर्घदुःखप्रभवभवभयोदन्वदुत्ता-
रनावः । दीर्घ च तद्दुःखं च तस्य प्रभव उत्पत्तिस्थानं स चासौ भवश्व संसारस्तस्मा-
द्भयं तदेवोदन्वान्समुद्रस्तस्मादुत्तारस्तत्र नावो यानपात्राणि । पावनानां पावकानां प
रमुत्कृष्टम् । किंभूतां प्रीतिम् । अपरिमितामपर्यन्ताम् । गाव इति श्लिष्टमेतदभिन्नम् ।
गावो धेनवश्चोच्यन्ते । ता अपि पयोभिर्दुग्धैः समुचितसमयाकृटसृष्टैः प्रजानां दत्ता-
नन्दा भवन्ति । पूर्वाह्ने प्रत्युषसि विप्रकीर्णा भवन्ति । अहोऽवसाने संहारभाज: । दी-
र्घदुःखप्रभवभवभयोदन्वदुत्तारनावश्च दत्ताः सत्यः सद्यः । तदीयैः पयोभिर्विप्राग्नितर्पण-
र्लोकाः संसारं तरन्तीत्यागमविदः ॥
2
बन्धध्वंसैकहेतुं शिरसि नतिरसाबद्धसंध्याञ्जलीनां
लोकानां ये प्रबोधं विदधति विपुलाम्भोजखण्डाशयेव ।
युष्माकं ते स्वचित्त मैथितष्टथुतरप्रार्थना कल्पवृक्षाः
कल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य ॥ १० ॥
दिनकरकिरणा रविपादा भवतां कल्मषस्य पापस्य केतवो विनाशका: कल्पन्तां
संपद्यन्ताम् । निर्विकल्पमसंशयम् । क्रियाविशेषणमिदम् । स्वं च चित्तं च स्वचित्तं
तस्य प्रथिता पृथुतरा पृथ्वी सा चासौ प्रार्थना च तस्याः कल्पवृक्षाः । ये लोकानां
प्रजानां प्रबोधं तत्त्वज्ञानं विदधति कुर्वन्ति । बन्धस्त्रिविधः - प्राकृतो वैकारिको दक्षि-
णासा(?) रूपश्चेति । तेन हि बद्धा देहिनो न मुच्यन्ते । तस्य ध्वंसो नाशस्त त्रैक हेतुः
१. 'अक्लिष्टसृष्टैः' इति पाठः,
'समुचिते योग्ये समये वर्षाख्ये अक्लिष्टमयाच्ञया'
इति वल्लभव्याख्या. २. 'प्रथिमपृथुतर' इति पाठः, 'स्वं भवतां यच्चित्तं तस्य यः प्र
थिमा विस्तारस्तद्वत्' इति वल्लभव्याख्या.