This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
 
घृणा च घनघृणा । अन्तद्विगुणा चासौ घनघृणा च तया निम्ना परवशा निर्विघ्न्ना अन्त-

रायरहिता वृत्तिर्यस्य स तथोक्तः ॥
 

 
बिभ्राणा वामनत्वं प्रथममथ तथैवांशवः प्रांशवो वः
 

क्रान्ताकाशान्तरालास्तदनु दशदिशः पूरयन्तस्ततोऽपि ।

ध्वान्तादाच्छिद्य देवैव[^१]द्विष इव बलितो विश्वमाश्वनुवानाः
 

कृच्छ्राण्युच्छ्रायहेलोपहसितहरयो हारिदश्वा हरन्तु ॥ ७ ॥

 
हारिदश्वाः सूर्यसंबन्धिनोंऽशवो रश्मयो वो युष्माकं कृच्छ्राणि दुःखानि हरन्त्वपन

यन्तु । पुनर्विशेष्यन्ते—-उच्छ्रायहेलोपहसितहरयः । उच्छ्राय उच्चैस्त्वं तस्य या हेला

लीला तथा उपहसितो विडम्बितस्त्वत्तोऽधिको देशोऽस्मादिति (?) हसितो हरिर्विष्णु-

स्ते । प्रारब्धविक्रमस्य विष्णोः सदृशा इति तात्पर्यार्थः । किं कुर्वाणाः । बिभ्राणा धार-

यन्तः । किम् । वामनत्वं खर्वत्वम् । प्रथममादौ । अथानन्तरं प्रांशवो दीर्घास्तथैव यथा

भगवान्नारायणः प्रथमं विक्रमकाले वामनत्वं कृत्वा प्रांशुर्घः संजातः । पुनरपि किं
'
-
भूताः । क्रान्ताकाशान्तरालाः । ऋान्तं व्याप्तमाकाशान्तरालमम्बरमध्यं यैस्ते तथोक्ताः ।

तदनु अनन्तरं च दश दिशो दशाशा: पूरयन्तः पूर्णा: कुर्वन्तः । ततोऽपि पुनरपि विश्वं

जगदश्नुवाना व्याप्नुवन्तः । आशु शीघ्रम् । किं कृत्वा । आच्छिद्याकृष्यापहृत्य । कुतः ।

ध्वान्तादन्धकारात् । कस्मादिव । देवद्विष इव सुरशत्रोरिव । बलितो बलिनाम्नः, अ-

न्यत्र बलितो बलवतः । पञ्चम्यन्तादुभयस्मात्तस् । विष्णोरेतत्संबन्धनीयम् । सोऽपि

वामनो भूत्वा प्रांशुरभूत् । तदनु च क्रान्तगगनान्तरालः । ततः परिपूरितदशदिशो ब-

लेविश्वमाच्छिद्य व्याप्तवानिति ॥
 

 
उद्गाटेनारुणिम्रा विदधति बहुलं येऽरुणस्यारुणत्वं

मूर्खोडूधोद्धूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।

शैलानां शेखरत्वं श्रि[^२]तशिखरिशिखास्तन्वते ये दिशतु
 

प्रेङ्खन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः ॥ ८ ॥

 
ते मयूखा रश्मयः खरांशोः सवितुः संबन्धिनो वो युष्मभ्यं सुखं शर्म दिशतु ददतु ।

येऽरुणस्य सारथेररुणत्वं लोहितत्वं बहुलं घनं विदधति कुर्वन्ति । केन । अरुणिन्ना लो-

हितत्वेन । उद्गाढेन प्रबलेन । रथाश्वाननेषु स्यन्दनतुरगवक्रेषु खलीनक्षतरुधिररुचः क

विकाव्रणशोणितच्छायाः । मूर्धोद्भूधूतौ सत्यां मस्तकोत्कम्पे सति । ये शैलानां पर्वतानां

शेखरत्वं मुकुटत्वं तन्वते विस्तारयन्ति । किंभूताः । श्रितशिखरिशिखा: सन्तः समा-

 
[^
.] 'देवद्रुहः' इति वल्लभपाठ:.
 
[^
.] 'श्रितशिखर शिखा : ' इति वल्लभपाठः, 'आश्लिष्ट-

शृङ्गकोटयः सन्तः' इति तद्व्याख्यानं च.