This page has not been fully proofread.

सूर्यशतकम् ।
 
घृणा च घनघृणा । अन्तद्विगुणा चासौ घनघृणा च तया निम्ना परवशा निर्विघ्न्ना अन्त-
रायरहिता वृत्तिर्यस्य स तथोक्तः ॥
 
बिभ्राणा वामनत्वं प्रथममथ तथैवांशवः प्रांशवो वः
 
क्रान्ताकाशान्तरालास्तदनु दशदिशः पूरयन्तस्ततोऽपि ।
ध्वान्तादाच्छिद्य देवैद्विष इव बलितो विश्वमाश्वनुवानाः
 
कृच्छ्राण्युच्छ्रायहेलोपहसितहरयो हारिदश्वा हरन्तु ॥ ७ ॥
हारिदश्वाः सूर्यसंबन्धिनोंऽशवो रश्मयो वो युष्माकं कृच्छ्राणि दुःखानि हरन्त्वपन
यन्तु । पुनर्विशेष्यन्ते—उच्छ्रायहेलोपहसितहरयः । उच्छ्राय उच्चैस्त्वं तस्य या हेला
लीला तथा उपहसितो विडम्बितस्त्वत्तोऽधिको देशोऽस्मादिति (?) हसितो हरिर्विष्णु-
स्ते । प्रारब्धविक्रमस्य विष्णोः सदृशा इति तात्पर्यार्थः । किं कुर्वाणाः । बिभ्राणा धार-
यन्तः । किम् । वामनत्वं खर्वत्वम् । प्रथममादौ । अथानन्तरं प्रांशवो दीर्घास्तथैव यथा
भगवान्नारायणः प्रथमं विक्रमकाले वामनत्वं कृत्वा प्रांशुर्घः संजातः । पुनरपि किं
'भूताः । क्रान्ताकाशान्तरालाः । ऋान्तं व्याप्तमाकाशान्तरालमम्बरमध्यं यैस्ते तथोक्ताः ।
तदनु अनन्तरं च दश दिशो दशाशा: पूरयन्तः पूर्णा: कुर्वन्तः । ततोऽपि पुनरपि विश्वं
जगदनुवाना व्याप्नुवन्तः । आशु शीघ्रम् । किं कृत्वा । आच्छिद्याकृष्यापहृत्य । कुतः ।
ध्वान्तादन्धकारात् । कस्मादिव । देवद्विष इव सुरशत्रोरिव । बलितो बलिनाम्नः, अ-
न्यत्र बलितो बलवतः । पञ्चम्यन्तादुभयस्मात्तस् । विष्णोरेतत्संबन्धनीयम् । सोऽपि
वामनो भूत्वा प्रांशुरभूत् । तदनु च क्रान्तगगनान्तरालः । ततः परिपूरितदशदिशो ब-
लेविश्वमाच्छिद्य व्याप्तवानिति ॥
 
उद्गाटेनारुणिम्रा विदधति बहुलं येऽरुणस्यारुणत्वं
मूर्खोडूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।
शैलानां शेखरत्वं श्रितशिखरिशिखास्तन्वते ये दिशतु
 
प्रेङ्खन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः ॥ ८ ॥
ते मयूखा रश्मयः खरांशोः सवितुः संबन्धिनो वो युष्मभ्यं सुखं शर्म दिशतु ददतु ।
येऽरुणस्य सारथेररुणत्वं लोहितत्वं बहुलं घनं विदधति कुर्वन्ति । केन । अरुणिन्ना लो-
हितत्वेन । उद्गाढेन प्रबलेन । रथाश्वाननेषु स्यन्दनतुरगवक्रेषु खलीनक्षतरुधिररुचः क
विकाव्रणशोणितच्छायाः । मूर्धोद्भूतौ सत्यां मस्तकोत्कम्पे सति । ये शैलानां पर्वतानां
शेखरत्वं मुकुटत्वं तन्वते विस्तारयन्ति । किंभूताः । श्रितशिखरिशिखा: सन्तः समा-
१. 'देवद्रुहः' इति वल्लभपाठ:. २. 'श्रितशिखर शिखा : ' इति वल्लभपाठः, 'आश्लिष्ट-
शृङ्गकोटयः सन्तः' इति तद्व्याख्यानं च.