This page has not been fully proofread.

सूक्तिमुक्तावली
 
अथैषां राज्ञां चरितात् प्रासङ्गिकात्प्रतिनिवृत्य जल्हणस्यास्य देशकालावुत्पश्यामि: । अस्मि-
नन्वये अस्मादयमजनीतिवदयमस्मिन् देशे अजनीति विशेषावबोधकं वचनं नैकमप्युपलभ्यते,
अतोऽयं यस्य राज्ञः करिवाहिनीपतिरासीत् तस्य देश एवास्य देश इति स्वरसतः संभाव्यते ।
राज्ञश्च तस्य देवगिरिः आभिल्लमात् पूर्वपुरुषादनुवर्तमाना राजधानीति हेमाद्रेर्वचनेनावगम्यते । समय
श्वास्यामेव सूक्तिमुक्तावल्यां अन्त्येन श्लोकेन–' शाकेद्रीश्वरपरिमिते ( १९७९ ) वत्सरे पिङ्ग-
लाख्ये चैत्रे मासि प्रतिपदि तिथौ वासरे सप्तसप्तेः । पृथ्वीं शासत्यतुलमहसा यादवे कृष्णराजे जल्ह-
स्यार्थे व्यराच भिषजा भानुना सेयमिष्टा' इत्यनेन विज्ञायते । ( A. D. 1258 )
 
प्राचीन नेक सुकविसूक्तिसंग्रहरूपेऽस्मिन् निबन्धे त्रयस्त्रिंशदधिका: शतं पद्धतयः
सन्ति संविभक्ताः । कविरेवायमारम्भे तासां पद्धतीनामनुक्रमं विषयनिर्देशमुखेन ज्ञापयति । तेनैवानु
क्रमणिकाप्रकरणेन विषयाश्वास्याः सूक्तिमुक्तावल्याः प्रायो विज्ञायेरन् । वयमपि विषयान् विवेच-
यिष्यामो विषयसूच्याम् ।
 
कविरयं वैग्रभानुर्विशेषकविकाव्यप्रशंसायां ग्रथ्यमाने व्यासवाल्मीकिपाणिनिप्रभृतिक विरत्न-
हारे आत्मानं ग्रथयत्यन्ते - ' नव्या न व्याकरणसरणिर्यस्य माधुर्यधुर्य नो सौन्दर्ये नवनवरसः
स्रोतसो न प्रवाहः । यादृक्प्रीत्या कथयति गिरां देवता देव तादृक् काव्यं श्राव्यं कवयति भिष-
ग्भानुनामा स एषः । ' इत्यनेन श्लोकेन । उपसंह्रियते च कविकाव्यप्रशंसासमनन्तरं ' इत्थं कवि-
कुटुंबस्य वचसि विचिनोति यः । ' इत्येनन ( ४९ )
 
अस्यां विशेषकविकाव्यप्रशंसायां ये वर्णिताः कवयः प्रायस्ते निबन्धेऽस्मिन् तत्तत्सुभा-
षितस्य कर्तृतया तत्र तत्र नामनिर्देशमुखेन निर्दिश्यमानेष्वन्तर्भवन्ति । तेषां च कवीनामकारादि
क्रमेणानुक्रमणी तत्तत्कृतसुभाषिताकरप्रदर्शनपूर्वकं निबन्धस्यान्ते ( परिशिष्टभागे ) प्रदर्शिता
नाम ! तत् कविकाव्य प्रशंसायामुपवर्णितानां कवीनामनुक्रमणी नास्माभिः पृथक् प्रदर्श्यते ।
प्रसङ्गादिदं स्मारयामः । तादृशः कोऽपि समयोऽभूत् - यस्मिन स्त्रियोऽपि कवीनां सदसि प्रतिष्ठिता
आसन्–शिलाभट्टारिका, विकटनितंबा, विजयाङ्का, प्रभुदेवी, बिज्जाका, इत्यायाः । एवं जात्या
अवरेष्वपि कविवरैरपि श्लाघनीयाः कवय आसन् । यानधिकृत्येयमुपवर्णना– ' शब्दार्थयोः समो-
गुम्फः पाञ्चाली रीतिरुच्यते । शिलाभट्टारिकावाचि बाणोक्तिषु सा यदि ॥ के वैकटनितम्बेन गिरां
गुम्फेन रञ्जिताः । निन्दन्ति निजकान्तानां स्वमौग्ध्यमधुरं वचः । सरस्वतीव कर्णाटी विजयाङ्का
जयत्यसौ । या वैदर्भगिरां वासः कालिदासादनन्तरम् । सूक्तीनां स्मरकेलीनां कलानां च विलासभूः ।
प्रभुदेवी कविर्लाटी गताऽपि हृदि तिष्ठति ॥ ' (४६) 'सरस्वतीपवित्राणां जातिस्तन्त्रं न देहिनाम् ।
व्यासस्पर्धी कुलालोऽभूत् यत् घ्रोणो भारते कविः । अहो प्रभावो वाग्देव्या यच्चण्डालदिवाकरः ।
श्रीहर्षस्याभवत् सभ्यः समो बाणमयूरयोः ।' (४५.पृ.) अनेन विज्ञायते सरस्वती पवित्रयति जात्या
अपवित्रमपि । यदसौ कवीनां सभां समलकुर्वन् मननीयो भवति महतामपीति । ननु केयमपवित्रता,
वियया तदपनोदनप्रकारश्च कः, इतिजिज्ञासा काऽपि समुत्यत्र । अथापि प्रासङ्गिकादस्मात् प्रकृता-
नपेक्षितात् विचारादपसरामो वयं प्रकृतं परिसमापयन्तः ।
 
अथास्मिन निबन्धे तत्र तत्र पद्यमनूय अमुककवेरिति कर्तुर्नाम निर्दिश्यते । त एते निर्देशाः
प्रायो न विसंवादिनः । कतिचन विसंवादिनोऽपि, यदन्यस्य कृतिरन्यस्य नाम्ना निर्दिश्यते ।