2022-08-27 13:31:39 by krvasuki
This page has not been fully proofread.
सूक्तिमुक्तावली
विज्ञायते चायमन्त्रयक्रमो हेमाद्रिविरचिते चतुर्वर्गचिन्तामणौ व्रतखण्डे राजप्रशस्तावेतः
श्लोकैः--
ततो मल्लुगिपुत्रोऽभूत् भूपालोऽमरमल्लुगिः ।
अथ कालीयवल्लालः पालयामास मेदिनीम् ॥
महीपतेस्तस्य विहाय पुत्रान् गुणानुरक्ता यदुवंशलक्ष्मीः
* श्री भिल्लमं तस्य ततः पितृव्यमव्याजराजद्भुजमाजगाम ॥
यः श्रीवर्धनमाससाद नगरं क्षोणीपतेरन्तलात्
यः प्रत्यण्डकभूभृतं च समरे दुष्टं व्यचेष्ट क्षणात् ।
यो वा मङ्गलवेष्टकं क्षितिपतिं श्रीविल्लणं जनिवान्
कल्याणश्रियमप्यवाप्य विदधे यो होसलेशं व्यसुम् ॥
स दण्डिकामण्डलमण्डयित्रीमकम्पसम्पद्विभवैर्विलासैः ।
चक्रे पुरं देवगिरिं गिरीशप्रसादसंसादितदिव्यशक्तिः ॥
तदनु मदनमूर्तिः कार्तिकीचन्द्रसान्द्रद्युतिविशदयशोभिः शोभिताशावकाशः ।
अभवदवनिपालो जैत्रपालः करालप्रहरणरणरिङ्गजङ्गदुत्नुङ्गखङ्गः ॥
दीक्षित्वा रणरंगदेवयजने प्रोदस्तशस्त्रस्रुवः श्रेणीभिर्जगतीपतीन् हुतवता येन प्रतापानले ।
तिल्लिङ्गाधिपतेः यशोविशसनं रौद्रस्य रुद्राकृतेः कृत्वा पूरुषयज्ञ मेधविधिना लब्धस्त्रिलोकीजयः ॥
तस्मादभूदभिनवस्मरचारुकीर्तिः कीर्तेः पदं स किल सिंधणदेव भूपः ।
उद्दण्डदोर्युगलगर्वितवैरिवीरसीमन्तिनी वदनकैरवचण्डभानुः ॥
येनानीयत मत्तवारणघटाजज्जल्लभूमीपतेः कुक्कूलादवनीपतेरपहृता येनाधिराज्यश्रियः ।
येन क्षोणिभृदर्जुनोऽपि बलिना नीतः कथाशेषतां ।
येनोद्दामभुजेन भोजनृपतिः काराकुटुंबीकृतः ॥
+कृष्णो महादेव इति प्रतीतौ जातौ ततः सिंहनृपस्य पौत्रौ ।
तयोस्तु पूर्वप्रभवः पुरस्तात् कृष्णोऽतिविख्यातमतिर्नृपोऽभूत् ॥
येनाकारि विशालवीसलचमूसंहारकालानले हेलोन्मूलितमूलराजसमरे निर्वीरमुर्वीतलम् ।
येनानेकमहाफलऋतुकृता संवर्ध्यमानोऽनिशं
क्षीणः कालवशात् पुनस्तरुणतां धर्मोऽपि संप्रापितः ॥ ' इति ।
अयमपरश्च पाठक्रमस्तस्मिन्नेवार्थे-
' वंशो हिमांशोर्जयति प्रसिद्धो यस्मिन् स राजा यदुराविरासीत् ।
बभूव यस्मिन्नसुरावतारभारापहाराय पुरा मुरारिः ॥
______________________________________________________________________________________________
* अयमेव भिल्लमः ' निनाय भिल्लमं जल्हो राजतां क्षयवर्जिताम्।' इत्यनेनात्रत्येन श्लोकेन प्रत्यभिज्ञायते ॥
१ इदमेव चरितं सिंघणस्य (सिंहस्य ) 'सिंहोऽप्यध्यापितस्तेन गजशिक्षां तदद्भुतम् । येनार्जुनं लसत्पत्रं
समूळमुदमूलयत् ॥
+ अयमेव कृष्णमहीपतिः— 'राज्यं कृष्णमहीपतेरविंकलं दत्वा स्थिरं यो व्यधात्' इत्यनेनात्रत्येन श्लोकेन
प्रत्यभिज्ञाप्यते ।
CC-0. Jangamwadi Math Collection. Digitzed by eGangotri