This page has not been fully proofread.

प्रस्तावना
 
तेषु महीधरः मैलुगेर्महीपतेर्वैरिणं बिज्जणं विजित्य वीरश्रियासमाश्लिष्टः सर्वेषामेव मान्यतमो-
ऽभवत् । अस्य पुत्रोऽनन्तः विजित्य शत्रून तदीयक रिसैन्यं समानीय स्वस्वामिने ददौ । अथ मिल्लमे
राज्यं प्रशासति जल्हः प्रधानः करिवाहिनीपतिरभूत् । सिंहे (सिंघणे) राज्यं प्रशासति गंगाधरस्य पुत्रो
जनार्दनः करिवाहिनीपतिरासीत् । यस्यैव बलेन संप्रवृद्धपराक्रमेण सिंहेनार्जनो नाम रिपुः समुन्मू-
लितः । अथ कृष्णमहीपतौ प्रशासति जनार्दनस्य पुत्रो लक्ष्मदेवः करिवाहिनीपतिः समभृत् । यस्यैव
मन्त्रैः कृष्णमहीपते राज्यं स्थिरमभूत् । तस्मिन्नेव कृष्णमहीपतौ राज्यधुरं निर्वहति लक्ष्मदेवस्य पुत्रो
जल्हणोऽयं करिवाहिनीपतिरासीत् येनेयं सूक्तिमुक्तावली संग्रथिता प्रथते । तथा चोपक्रमे श्लोका-
' उपायैरिव तैः काले चतुर्भिः सुप्रयोजितः ।
मैलुगिक्षाणिपालस्य राज्यं जातं समुन्नतम्
'बिज्जणजलराशिं विमथ्य भुजमन्दरेण यः कृतवान्
वीरश्रियमङ्कस्थां स न कस्य महीधरः स्तुत्यः । '
'किं चित्रं यदि भोगीन्द्रोऽनन्तस्तत्तनयो बहून् ।
आनीय बलिसस्थान नागान् स्वस्वामिने ददौ "
'विजित्य बिज्जणं याते सुरलोकं महीधरे ।
निनाय मिल्लमं जल्हो राजतां क्षयवर्जिताम् । '
आसीत् गङ्गाधरस्तस्य भ्राता गङ्गाधरोपमः ।
तस्याभवत् सूनुरनूनसत्वो जनार्दनाख्यः करिवाहिनीशः ।
'सिंहोऽप्यध्यापितस्तेन गजशिक्षां तदुद्भुतम् ।
यथार्जुनं लसत्पत्रं समूलमुद मूलयत् ।
'तस्माद्भुतविक्रमः समभवत् श्रीलक्ष्मदेवः सुधीः ।
"राज्यं कृष्णमहीपतेरविकलं दत्त्वा स्थिरं योग्यधात् "' तस्यास्ते तनयः x x श्रीजल्हणाख्यः क्षितौ । मत्पित्रादत्तमस्मै x x राज्यं प्राज्यप्रथितगुण
भृताकृष्णराजाय भक्त्या । तन्निर्वाह्यं मयेति x x विधत्ते सर्व यः स्वामिकार्यम् । " इति ।
राज्ञां चैषामयमन्वयक्रमः
मल्लुगि:
 
विश्वाराध्य
 
( अमर ) मल्लुगिः ( मैलगिः ) मिल्लमः (१९८७-११९१) A. D.

अमरगाङ्गेयः
कालीयवल्लालः
 
जैत्रपाल: (१९९१-१२१०) A.D.
 
कृष्णः ( १२४७–१२६० ) A. D.
 

सिंहः ( सिंघणः ) १२१०–१२४७ A. D.
 
J
 
जैतगि:
 
-
 
महादेवः
 
CC-0. Jangamwadi Math Collection. Digitzed by eGangotri
 

 
A