This page has not been fully proofread.

सूक्तिमुक्तावली
 
ग्रथितैः ' विबुधैः सन्निवेशज्ञैः सङ्ग्रहीतान्यनेकशः । सुधारससनाभीनि सन्ति सूक्तानि यद्यपि ।
तथाऽपि स्वर्वतां नीत्वा विबुधैर्गर्वपर्वतम् । शश्वदालोकनीयोऽयं मत्सरः किं गुणेष्वपि । साहित्य-
विद्यां हृदयं ज्ञातुमिच्छसि चेत्सुखम् । तत्पश्य जल्हणकृतां सूक्तिमुक्तावलीमिमाम् । नाङ्गुलीयैर्न केयू-
रैर्न ग्रैवेयैर्न कङ्कणैः । तथा भाति यथा विद्वान् कण्ठसंगतयाऽनया ।' इत्येतैः वैयभानुपण्डितस्येति
नामनिर्देशसहितैरेतद्विज्ञायते-कर्ता जल्हणः, स्तौति वैद्यभानुकविस्तस्य कृतिमिति । तथाऽपि निद-
र्शितेन 'जल्हस्यार्थे व्यराचे भिषजा भानुना सेयमिष्टा ।' इत्यनेन श्लोकेन वयमेवं संभावयामः-
वैद्यभानुकविरेव स्वकृतिमपि सूक्तिमुक्तावलीं 'तेनेयं क्रियते' इत्यन्तेन श्लोकेन जल्हणकर्तृकतयैव
ख्यापयन् तामिमां स्वात्मना स्तौति तैरेतैश्चतुर्भिः श्लोकैरिति ।
 
अथ वयमधुना करस्यैव मतेन कर्तृतयाख्यायमानं जल्हणमेवास्याः कर्तारं भावयन्तश्चरित -
मस्यानुवर्णयामः । आसीत् पुरा कोऽपि यादववंशसमुत्पन्न: मैलुगि ( मल्लुगि ) नामा क्षोणिपालः ।
तस्मिनंं प्रशासति पृथिवीमासीत्तस्यैव करिवाहिनीपतिः दादा नाम वात्स्यः कोऽपि प्रथितनयपराक्रमः ।
तस्यासन् चत्वारः पुत्राः- महीधरो जल्हः साम्बो गङ्गाधरः इति । तेषु यश्चरमो गङ्गाधरस्तस्य नप्ता
जनार्दनस्य पौत्रः लक्ष्मदेवस्य पुत्रः सोऽयं जल्हणः । सर्व एवैते तस्यैव राज्येऽन्वयक्रमेण करिवाहिनी-
पतय आसन् ।
 
 
 
अयमन्वयक्रमः
 
दादा:
 
महीधरः -------- जल्हः ------- साम्बः ------गङ्गाधरः
 
अनन्तः जनार्दनः
 
लक्ष्मदेवः
 
जल्हण:
अयं च क्रमः अस्या एव सूक्तिमुक्तावल्या आरम्भे विज्ञायते -
'तस्यान्वयेऽभूत् करिवृन्दनाथो दादाः सदा दाननिदानभूतः । '
'चत्वारस्तस्य सञ्जातास्तनया नयशालिनः । ख्यातो महीधरो जल्हः साम्बगङ्गाधरावुभौ
वीरश्रियमङ्कस्थां स न कस्य महीधरः स्तुत्यः ।'
'किंचित्रं यदि भोगीन्द्रोऽनन्तस्तत्तनयो महान् । '
'ददाह कामं न जनस्य रुष्टस्तथाऽपि गङ्गाधर एव सोऽभूत् । '
'तस्याभवत् सूनुरनूनसत्वो जनार्दनाख्यः करिवाहिनीशः।'
'तस्मादद्भुतविक्रमः ( समभवत् ) श्रीलक्ष्मदेवः सुधीः । '
'तस्यास्ते तनयो नयोदधिविधुः + + श्रीजल्हणाख्यः सुधीः ।' इति ॥
येषां राज्ञां करिवाहिनीपतय एते अभूवन, ते राजानश्चत्वार इहैव निर्दिश्यन्ते मैलुगिः भिल्लभः
सिंह: (सिंघण:) कृष्णदेव इति । तत्र मैलुगिक्षोणिपालस्य राज्यं महीधरजल्हसाम्बगङ्गा
घरैश्चतुर्भिर पि
काले काले राज्यधूर्वहणे राज्ञः संपूर्ण साहाय्यमाचराद्भः स्वबलनिर्धुतवैरिजलैः परामुन्नतिं गमितम् ।