This page has not been fully proofread.

प्रस्तावना.
_______
 
 
 
जयन्तु कवयो मान्याः सूक्तिरत्नाकरश्रिया ।
येषां मुखारविन्देषु रमते सा सरस्वती ॥
जयन्तु वश्यवचसां कवीनां सूक्तयो भुवि ।
यासामास्वादनाच्चित्ते व्यज्यते स परो रसः ॥
जयन्तु ते सहृदयाः काव्यामृतनिषेविणः ।
येषामाह्लादनान्नान्यत् कवीनां स्वकृतेः फलम् ॥
 
अयं खलु निबन्धः सुभाषितसङ्ग्रहैकस्वरूपः सूक्तिमुक्तावलीति नाम्नाऽन्वर्थेन ख्यायमानः
काव्यामृतशरीरेणाद्यापि जीवतः कवीन बहून श्रुतचरानश्रुतचरांश्च अद्यतनानां सहृदयानां दृष्टिपथे
समवतारयन् समाप्लावयंश्च सुभाषितसुधारसैरवगाहमानानखिलान् समुल्लासयन् सकलसुमनोमनांसि
समुपदर्शयंश्चैकैकस्मिन्विषये कवीन मुपवर्णन वैचित्र्यं कमप्याह्लादमुपजनयति सहृदयानाम् । ईदृशा
निबन्धाः सदुक्तिकर्णामृत कवीन्द्रवचनसमुच्चयप्रभृतय इतः प्राक्तनाः । शार्ङ्गधरपद्धतिप्रभृतय इतः
पश्चात्तना अपि सन्ति नाम ।
 
अस्याः सूक्तिमुक्तावल्याः कर्ता जल्हण इति व्यक्तं विज्ञायते । उपक्रमे ह्यस्याः पद्यमिदम् –
'तेनेयं क्रियते वीक्ष्य सत्सुभाषितसंग्रहान् । सूक्तिमुक्तावली कण्ठकदलीभूषणं सताम्' इति ।
(५. पृ.) उपस्थापयतिचैतत् जल्हणम् । पूर्वमस्यान्वयो हि समनुवर्ण्यते- 'तस्यान्वयेऽभूत् ।
इत्यादिना 'कीर्त्या यस्ये 'त्यन्तेन पयजातेन ( ५ पृ.) अन्तिमश्लोकश्चायमनुक्रमणिकाप्रकर-
णस्य 'श्रीमता भगदत्तेन जल्हणेन व्यरच्यत' इति । ( ७ ) यदा पुनरादाविवान्तेऽपि दृष्टि:
प्रसार्येत तदा तु निबन्धस्यास्य कर्ता कविवरोऽन्य एव विज्ञायते । तथाचान्ते श्लोकाविमौ - 'शाकेऽ-
डाद्रीश्वरपरिमिते +++ जल्हस्यार्थे व्यरचि भिषजा भानुना सेयमिष्टा ॥ शश्वत्कृष्णमहीपस-
म्पधेर्वृद्धौनिशानायक: +++ भिषजां वरो विजयते श्रीभास्कराख्यः सुधी: ' इति । (पृ. ४६३ )
तदिदं श्लोकद्वयमवहितेन मनसा विमृशन्तो वयमिहैवं संभावयामः-कविरयं वैद्यभानुः जल्हणं
प्रीणयन् विरच्य सूक्तिमुक्तावलीमिमां तस्मै समर्प्य तमेवास्याः कर्तारं जगति ख्यापयन आदौ तस्य
वंशमनुवर्णयन् 'तेनेयं क्रियते +++ सूक्तिमुक्तावली कण्ठकदलीभूषणं सताम् ' इति तमेव जल्हण-
मस्याः कर्तारं कण्ठरवेण प्राहेति । पुरा खलु बहवः कवयः प्रभुं समाराधयन्तः काव्यानि विरच्य तमेव
प्रभुं तस्य काव्यस्य कर्तारं काव्यारम्भे ख्यापयन्तः सम्मानिताश्च तेन प्रभुणा धनकनकादिभि-
रभूवन्निति विख्यातमेतत् ।
 
किं च सेयं सूक्तिमुक्तावलिः आदावन्ते च वैद्यभानुकवेः सूक्तिरत्नैः सङ्ग्रथितैर्विग्रोतमाना
सूचयतीव कर्तारं वैद्यभानुकविम् । संमुद्रितेव हीयं भाति कविना स्वसूक्तिभिरादावन्ते च । आदौ-
नाङ्गुलीयैर्न केयूरैः न ग्रैवेयैर्न च कङ्कणैः । तथा भाति यथा विद्वान् कण्ठसङ्गतयाऽनया' इति
( ५ पृ. ) अन्तेच 'शौर्य श्लाघाविहीनं x x शङ्कर त्वत्प्रसादात् ' ( ४६३ ) इति । ( श्लोका-
विमौ वैद्यभानुकवेः ) यद्यपि - 'तेनेयं क्रियते वीक्ष्य x x x सताम् ' इत्यस्य श्लोकस्य समनन्तरं