This page has not been fully proofread.

धनधान्यपद्धतिः ।
 
'
 
८९
 
पधर्मवान् स एव पुरुष इत्यर्थः । पुण्यजनानां ईश्वरश्च । कुबेरोऽत्र
निदर्शनम् । यः कुबेरः सर्वेषामुत्तरामाशां उत्तरदिशम् परिपाल -
यति सः, मनुष्यस्येव आचारो यस्य मनुष्यधर्मा, सप्तम्युपमानेत्या-
दिना समासः । धर्मादनिच्केवलादिति समासान्तोऽनिच् । भद्रमङ्गल-
वारादिशब्दवद्विपरीतलक्षणया पुण्यजनशब्दो राक्षसे प्रसिद्धः तेषां
ईश्वरः पुण्यजनेश्वरः । ' देहीति वदतां प्रायः प्रसीदन्प्रत्युवाच सः ।
ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्पदैः ॥' 'चातकस्त्रिचतुरान् पयः
कणान् याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त
हन्त महतामुदारता ॥' इत्यादीनीहानुसन्धेयानि ॥ ४ ॥
येषां हिरण्यकशिपुक्षेत्रदानकरः करः ।
 
तेषां तिर्यङ्मुखखेऽपि पुरुषत्वं न हीयते ॥ ५ ॥
 
येषामिति ॥ येषां करः हस्त: हिरण्यं च कशिपु अन्नवस्त्रे 'कशिपु
 
,
 
त्वन्नमाच्छादनं द्वयम् इत्यमरः । तच्च क्षेत्राणि च तेषां दानं
करोतीति दानकरः, तेषां तिर्यग्वृत्तं मुखं येषां ते तथोक्ताः तेषां भावः
तिर्यङ्मुखत्वम्, तस्मिन्नपि पुरुषत्वं श्रेष्ठत्वम्, न हीयते न त्यज्यते ।
अत्र नरसिंहो निदर्शनम्, स हि हिरण्यकशिपोः क्षेत्रदानं शरीर-
च्छेदनं,
करेण कृतवान्,
तिर्यङ्मुखः सिंहस्य तिर्यग्जातित्वात् पुरु-
पश्च । 'भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधि च
 
वर्तेते वासुदेवे सनातने, इति तस्य पुरुषधर्मपौष्कल्यात् ॥ ५ ॥
मुख्यदानोदकक्लिन्नकरः ख्यातक्षमाधृतिः ।
लोकपालाश्रितः कश्चिदनाशावारणः कथम् ॥ ६ ॥
 
6