This page has not been fully proofread.

८०
 
सुभाषितनीव्यां
 
अर्भकैरसमर्थैरपि गृह्यन्ते, हस्तापचेयफला भवन्ति । षोत्थापित-
 
ताद्रूप्यरूपकालङ्कारः ॥ २॥
 
धिनोतीति धनं, तद्धि लौकिकं न भवति, तस्य 'अर्थानामार्जने
दुःखम् ' इत्यादिना दुःखहेतुत्वात्, अतस्तत्परित्यागेन ये आत्मत-
त्परास्त एव सुखिन इत्याह-
 
निर्मुक्तभवनक्षेत्राः स्युः सदागतिनिर्वृताः ।
 
प्राप्ते भयविपर्यासे भोगिनः खलु भोगिनः ॥ ३॥
 
निर्मुक्तेति ॥ निर्मुक्तानि त्यक्तानि भवनानि गृहाः क्षेत्राणि च
यैस्ते तथोक्ताः, 'लोकेषणायाश्च पुत्रेषणायाश्च वित्तेषणायाश्च व्युत्था-
याथ भिक्षाचर्ये चरति, ' 'अत्र ब्रह्म समश्नुते' 'इमं च लोकममुं च परि-
त्यज्यात्मानमन्विच्छेत्' इत्यादिभिरात्मानुभवशालिन इत्यर्थः । सता-
मागतौ प्राप्त निर्वृताः, भयविपर्यासे प्राप्तेऽपि महाप्रलयादौ प्रा-
"तेऽपि, भोगिनः सुखवन्तः, भोगिनः स्युः खलु फणिनः स्युः खलु ।
श्लेषभित्तिकाध्यवसायनिबन्धनातिशयोक्तिः । फणिपक्षे निर्मुक्तानि
मुक्तकञ्चुकानि भवनसदृशानि क्षेत्राणि शरीराणि येषां ते तथो-
क्ताः, सदागतिना वाताहारेण निर्वृता इत्यर्थः ॥ ३ ॥
सर्वेषामुत्तरामाशां धनदो यः प्रतीक्षते ।
सत्यं मनुष्यधर्मैव स तु पुण्यजनेश्वरः ॥ ४ ॥
 
सर्वेषामिति ॥ सर्वेषामुत्तरां उत्कृष्ठां आशां स्वस्माद्धनग्रहणा-
भिलाषं, यो वदान्यः, प्रतीक्षते परिपालयति, स मनुष्यधर्मैव, पुरु