This page has not been fully proofread.

धनधान्यपद्धतिः ॥
 
आभिमुख्यदशामात्रादादर्श इव सज्जनः ।
शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ॥ १ ॥
 
आभिमुख्येति ॥ सजना दाता आभिमुख्यदशामात्राद्याचक-
स्याभिमुखागमनमात्रेण, न तु याच्ञापर्यन्तं, याच्ञायाः परक्लेशावह-
त्वात्, रक्तं रागवन्तं फलाभिलाषिणम्, अरक्तं तद्रहितं वा,
लाक्षादिरागयुक्तद्रव्यं तद्रहितद्रव्यं वा, स्वप्रसादतः 'कृतज्ञतापक-
र्तृत्वं भूयो दोषानभिज्ञता । एप प्रसादश्चित्तानां लक्षणशैरुदाहृतः । '
इत्युक्तचित्तगुणात् स्वनैर्मल्यतश्च, आदर्श इव, गृह्णाति अनुगृह्णाति,
ग्रहणसाधनं भवति च, साधने कर्तृत्वोपचारः । स्वात्मदातृत्वप्रकाश-
नेन स्वाश्रितेषु भगवतः उदाराः सर्व एवैते ' इति खलुक्तिः ।
मजनप्रकृतिस्तादृशीति भावः । उपमालङ्कारः ॥ १ ॥
 
'
 
अप्यनावर्जिताः स्वेन फलरागेण समताः ।
अर्भकैरपि गृह्यन्ते साधुसन्तानशाखिनः ॥ २ ॥
 
अपीति ॥ अनावर्जिताः स्वेन स्वार्थफलाभिलाषेण अनाकृष्टा
अपि अत्युन्नतत्वादनम्या अपि, फलरागेण सन्नताः परार्थफलग्रहणा-
भिलाषेण मन्नताः स्वयमेत्र सम्यङ्नताः, माधव एव सन्तानशाखिनः