This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">
नीतिमत्पद्धतिः ।
 
</ignore>
<ignore lang="sa">
७७
 
</ignore>
<p lang="sa">
क्षमावन्तो महात्मानः क्षान्यैवाक्षेषैपरूक्षाक्षरमुखरमुखान् दुर्जनान्

दुःखयन्तः कलावन्तः क्षमागुणवत्तया मनः कालुष्यं न प्राप्स्यन्ति ।

क्षुद्रपुरुषोत्तरादानेन असमर्था इत्यपवादोऽपि तेषां न कर्तुं शक्यत
 

इत्याह-
 
-</p>
<verse lang="sa">
विबुधमहिते मेरावैरावणः करटी मुहुः
 

कषतु करटं कण्डूलं स्वं क्षरन्मदकर्दमम् ।

भजतु च तटक्रीडां पादैर्विसन्धि रसाद्दृढं
 

न च मलिनता नापि क्षोभः कलाभृति संभृतः ॥
 
</verse>
<trailer lang="sa">
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
 

कृतिषु सुभाषितनीव्यां
 

नीतिमत्पद्धतिः

नवमी ॥
 
</trailer>
<p lang="sa" merge-next="true">
विबुधेति ॥ विबुधमहिते देवबहुमते विद्वत्पूजिते च, मेरौ,

विदुषीति गम्यते, ऐरावणः करटी, ऐरावतो गजः दुर्जनश्च,

अरन्मदकर्दमं स्रवत्कर्दमसदृशमदं, कण्डूलं कण्डूतियुक्तम्, कटं

कषतु, किं च पादैः दृढं विसन्धि विशरसन्धिबन्धं यथा भवति

तथा; तटक्रीडां भजतु, कलाभृति मुवर्णधारिणि मेरोरौ विद्यावति च,
 
</p>
</page>