सुभाषितनीवी /95
This page has not been fully proofread.
नीतिमत्पद्धतिः ।
७७
क्षमावन्तो महात्मानः क्षान्यैवाक्षेपरूक्षाक्षरमुखरमुखान् दुर्जनान्
दुःखयन्तः कलावन्तः क्षमागुणवत्तया मनः कालुष्यं न प्राप्स्यन्ति ।
क्षुद्रपुरुषोत्तरादानेन असमर्था इत्यपवादोऽपि तेषां न कर्तुं शक्यत
इत्याह-
विबुधमहिते मेरावैरावणः करटी मुहुः
कषतु करटं कण्डूलं स्वं क्षरन्मदकर्दमम् ।
भजतु च तटक्रीडां पादैर्विसन्धि रसाद्दृढं
न च मलिनता नापि क्षोभः कलाभृति संभृतः ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
नीतिमत्पद्धतिः
नवमी ॥
विबुधेति ॥ विबुधमहिते देवबहुमते विद्वत्पूजिते च, मेरौ,
विदुषीति गम्यते, ऐरावणः करटी, ऐरावतो गजः दुर्जनश्च,
अरन्मदकर्दमं सवत्कर्दमसदृशमदं कण्डूलं कण्डूतियुक्तम्, कटं
कषतु, किं च पादैः दृढं विसन्धि विशरसन्धिबन्धं यथा भवति
तथा; तटक्रीडां भजतु, कलाभृति मुवर्णधारिणि मेरो विद्यावति च,