This page has not been fully proofread.

७६
 
सुभाषितनीव्यां
 
."
 
क्राश्येरन् कथं त्वितरे जनाः ॥ ' ' वर्ग तृतीयमवधरियतां विनेत' इति
युक्तम् । भगवत्पक्षे विः पक्षी गरुत्मान् तेन ईरयति गच्छतीति
वीरः, प्रद्युम्नः अनिरुद्धात्मा च वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धा इति
व्यूहेषु परिगणितत्वात् स्वनाम्ना स्वनामस्मृत्यर्थं अध्ययनेन वसतीति-
वत्, मानसोदयः भक्तानां चित्तेषु अभिव्यक्तः, अखिलं जगत् 'स्त्री-
प्रायं पतिं विश्वस्य' इत्युक्तरीत्या स्त्रीतुल्यं वितनुते भर्तृभार्यासंबन्ध-
तुल्यसम्बन्धवत्करोतीत्यर्थः । न च पतित्वमीश्वरत्वमिति वाच्यम् ।
आत्मैश्वरमिति पुनरुक्तेः ॥ ७ ॥
 
* यमेनोपक्रमे जानन्विश्वाधीशं व्यवस्थितम् ।
सामादिषु च तत्त्वज्ञः स न कः सिद्धिमर्हति ॥ ८ ॥
* प्रयुक्तं मन्त्रिभिः काले भक्तिभेद पुरस्कृतम् ।
अपि ज्वलनवक्तॄणां साम संवननं परम् ॥ ९ ॥
* विधौ लब्धधृतिर्नीत्या विनतानन्दनो द्विजः ।
नियम्यमानैः स्थानेषु भुजगैरपि भूष्यते ॥ १० ॥
 
* नीतिः सती त्वयि परं परपुष्टधातुः
पुत्रीकृतोऽपि बलिपुष्टकुलैर्यतस्त्वम् ।
दूरीकृतोऽपि पुरुषैस्तत एव काले
 
कण्ठो यदेष तव पञ्चममुच्चकार ॥ ११ ॥
 
* एतेषां चतुर्णा श्लोकानां रत्नपेटिकाव्याख्या नोपलभ्यते ॥