This page has not been fully proofread.

७४
 
1
 
सुभाषितनीव्यां
 
' निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अवन्ध्यकालो
वश्यात्मा स वै पण्डित उच्यते ॥ यस्य कृत्यं न जानन्ति मन्त्रं वा
मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ यथाशक्ति
चिकीर्षन्ति यथाशक्ति च कुर्वते । न किंचिदवमन्यन्ते नराः पण्डि -
तबुद्धयः ॥ आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते । हितं च नाभ्य-
सूयन्ति पण्डिता भरतर्षभ ॥ मङ्गलालम्बनं योगः श्रुतमुत्थानमार्जवम् ।
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥ ' ' बलं पञ्चविधं नित्यं
पुरुषाणां निबोध मे । यत्तु बाहुबलं नाम प्रथमं बलमुच्यते ॥ अमा-
त्यलाभो भद्रं ते द्वितीयं बलमुच्यते । तृतीयं धनलाभं च बलमाहुर्म-
नीषिणः ॥ यत्त्वस्य सहजं राजन् पितृपैतामहं बलम् । अभिजातबलं
नाम चतुर्थे बलमुच्यते ॥ यद्वलानां बलं श्रेष्ठे तत्प्रज्ञाबलमुच्यते । '
इत्युक्तपञ्चविधबलशालिनः राज्ञः प्रभुमन्त्रोत्साहशक्तयः सिद्धिहेतव
 
इत्याह-
 
कामाधिकरणग्राह्यकुलादिबलशालिनः ।
 
अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ॥ ६ ॥
 
कामेति ॥ काममत्यर्थं अधिकेषु रणेषु ग्राह्यं कुलादिबलं पितृपै-
तामहादिबलम् । शलति गच्छतीति तथोक्तस्य नरेन्द्रस्य, शक्तयः
प्रभुमन्त्रोत्साहशक्तयः, अहीने बलवच्छत्रावपि सिद्धिहेतवः जय-
हेतवः । विषवैद्येोऽत्र निदर्शनम् । कामाधिकरणं कामबीजं सकल-
मन्त्राणां मन्मथबीजसरस्वतीबाजश्रीबीजादियुक्तत्वात् तेन ग्राह्यं
कुलादिबलं, मन्त्रेषु कुलाकुलमन्त्राः सन्तीति मन्त्रवेदिनो वदन्ति,
 
'