सुभाषितनीवी /91
This page has not been fully proofread.
नीतिमत्पद्धतिः ।
७३
' वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु । परीक्ष्यकारिणं वीरमत्यन्तं
श्रीर्निषेवते ।' 'दानं होमं दैवतं मङ्गलानि प्रायश्चित्तं विविधान् लोक-
वादान् । एतानि यः कुरुते नैत्यिकानि तस्योत्थानं देवता राधयन्ति '
इत्यादीनि द्रष्टव्यानि
॥ 8 ॥
'प्रसादो निष्फलो यस्य क्रोधो यस्य निरर्थकः । न तं भर्तारमि-
च्छन्ति पण्डं पतिमिव स्त्रियः । ' ' अपनीतं सुनीतेन योऽर्थे प्रत्यानि-
नीते । मतिमास्थाय सुदृढां तदकापुरुषव्रतम् । आयत्यां प्रतिका-
रशः तथाद्य दृढनिश्चयः । अतीतकार्यशेषज्ञो नरोऽथैर्न प्रहीयते '
इति राजनीतिमनुवर्तमानो न शत्रुभिर्जीयत इत्याह--
---
अङ्गयुक्तः कृतास्त्रश्च कुर्वन्सम्यक्पुरोविधिम् ।
विजानन्सिद्धसाध्यादीन्वैरिणोऽस्त्रैर्न पीड्यते ॥ ५ ॥
अङ्गेति ॥ ' स्वाम्यमात्यसुहृत्कोशराष्ट्र दुर्गबलानि च । राज्याङ्गानि
इत्युक्ताङ्गयुक्तः, कृतास्त्रः शिक्षितधनुर्विद्यः, सम्यक्पुरोविधिं कुर्वन्
पुरोहितवरणं कृत्वा सर्वकार्येष्वतो ब्राह्मणं कुर्वन्नित्यर्थः । सिद्धसा-
यादीन् एतावत्कार्य सिद्धं, एतावत्कार्य साध्यं इति जानन् कृत-
प्रत्यवेक्षणेन कृत्यशेषं निर्धारयन्नित्यर्थः । एवंविधो राजा वैरिणो-
Sर्न पीड्यते । अत्र मन्त्रशास्त्रप्रक्रियया पुरश्चरणं कुर्वाणो निदर्श-
नम् । अङ्गयुक्तः षडङ्गद्वादशाङ्गादिन्यासयुक्तः, कृतास्त्रः कृतास्त्रमन्त्रः,
सिद्धसाध्यादीन् मन्त्रार्पणविधिना स्वनाम्ना सिद्धसाध्यादिस्थानानि
विजानन्, पुरोविधिं कुर्वन् पुरश्चरणं कुर्वन, वैरिणोऽस्त्रैर्न पीड्यत
इति ॥ ५ ॥