सुभाषितनीवी /90
This page has not been fully proofread.
७२
सुभाषितनीव्यां
सम्यक्परिपालने स एव लोकपालो भवतीत्याह-
सदसन्तौ विचिन्वानः समवर्ती शमप्रदः ।
अपि दण्डधरो नित्यं लोकपालः सदक्षिणः ॥ ३ ॥
सदिति । सदसन्तौ गुणदोषसत्त्वासत्त्वे विचिन्वानः विमृशन्,
समवर्ति सर्वसमानवृत्ति, शमप्रदः यथाधिकारं क्षमावान् । दण्डध-
रोऽपि दक्षिणःसमर्थो, लोकपालः लोकरक्षकः । अत्र निदर्शनं यमः
स हि धर्माधर्मविचारयिता, समवर्ती शमन: कालदण्डाख्यदण्डधरः,
दक्षिणो लोकपालः दक्षिणदिक्पालः । 'अदण्ड्यान् दण्डयन् राजा
दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चाधिगच्छति'
इत्यादिस्मृतिरनुसन्धेया ॥ ३ ॥
-
महावीरो वानरचेष्टाभिर्युद्धं कुर्वन्नपि अवसरे भातीत्याह-
तमिस्राचारिणां योद्धा विजिताक्षो मरुत्प्रियः ।
कपिकृत्यैरपि स्थाने भाति वेलातिलङ्गिभिः ॥ ४॥
तमित्रेति । तमिस्राचारिणां रोद्धा तामसाचारवतां नियन्ता,
रात्रिञ्चराणां हिंसकश्च विजिताक्षः जितेन्द्रियः जिताक्षकुमारश्च,
मरुतां देवानां प्रियः वायुप्रियश्च, वेलातिलङ्गिभिः मर्यादातीतैः अ-
ब्धिवृद्धिमतिक्रम्य कृतैश्च, 'वेलाब्धितीराभिवृद्धयोः' इति रत्नमाला ।
कपिकृत्यैरपि स्थाने युक्तसमये भाति । हनुमानत्र निदर्शनम् । अतो
यथाकथंचित्पराक्रमं कुर्यादिति भावः । 'निजानन्तरतः शत्रून् पश्च
पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति तमापद्मसते नरम् ।
1