सुभाषितनीवी /89
This page has not been fully proofread.
नीतिमत्पद्धतिः ।
७१
'समवेश्येह धर्मार्थी सम्भारान् योऽधिगच्छति । स वै संभृतसं-
भारः सततं सुखमेधते ॥ यः पञ्चाभ्यन्तरान् शत्रूनविजित्य मनो-
मयान् । जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम् ॥ अनसूया -
र्जवं शौचं सन्तोषः प्रियवादिता । दमः सत्यमनायासो न भवन्ति दुरा-
त्मनाम् ॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । धृत-
राष्ट्रोल्मुकानीव ज्ञांतयो भरतर्षभ ॥ महानप्येकजो वृक्षो बलवान्
सुप्रतिष्ठितः । प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात् ॥ अथ
ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः । ते हि शीघ्रतमान् वातान् सहन्ते
ऽन्योन्यसंश्रयात् ॥ ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना ।
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ ज्ञातयो वर्धनीयास्तैर्य
इच्छन्त्यात्मनः शुभम् । कुलवृद्धिं च राजेन्द्र तस्मात् साधु समाचर '
इत्युक्तरीत्या ज्ञात्यनादरणनिमित्तमन्तश्छिद्रं कुलं नाशयति, तस्मात्
नीत्या वर्तितव्यमित्यभिप्रेत्याह---
पार्थिवानां पदार्थानां स्वभृत्या चक्रवर्तिनाम् ।
जनयत्यचिराद्भेदं छिद्रेण महतान्वयः ॥ २ ॥
पार्थिवानामिति । प्रदाय राज्याय इमे पदार्थास्तेषां स्वभूत्या
स्वैश्वर्येण चक्रवर्तिनां अखण्ड भूमण्डलाधिपतीनां पार्थिवानां राज्ञां
अन्वयो वंशः महता छिद्रेण अन्तःकलहेन भेदं जनयति, प्रभुत्वं
नानामुखं करोति । अत्र घटादिनिदर्शनं स्वभूत्या स्वीयया स्वोत्पा-
दनार्थमपेक्षितया भूत्या भस्मना सह चक्रवर्तिनां कुलालचक्रस्थि-
तानां पार्थिवानां पदार्थानां घटादीनामन्वयः सद्भावः, महता छिद्रेण
भेदं भग्नत्वं जनयति ॥ २ ॥