This page has not been fully proofread.

नीतिमत्पद्धतिः ॥
 
विक्रमाक्रान्तभुवने समे षाङ्गुण्यशालिनि ।
 
,
 
भजति स्थिरतां लक्ष्मीः कस्मिंश्चित्पुरुषोत्तमे ॥ १ ॥
विक्रमेति ॥ विक्रमेण पराक्रमेण पादन्यासेन च, आक्रान्तभुवने
आक्रान्तलोके, समे सर्वजनसमानवृत्तौ षाड्गुण्यशालिनि सन्धिवि-
ग्रहयानासनद्वैधीभावसमाश्रयाख्यषड्गुणशालिनि, षड्गुणा एव घा
ड्गुण्यं, स्वार्थे ष्यञ् ,
ज्ञानबलैश्वर्यवीर्यशक्तितेजः शालिनि च, कस्मि
श्चित् पुरुषोत्तमे पुरुषधौरेये परमपुरुषे च, लक्ष्मीः सम्पत् देवी च,
' शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिति कथ्यते ' इति निघण्टुः ।
स्थिरतां भजति । पुरुषोत्तम शब्दसमर्थनं बहुधा ग्रन्थेषु कृतमिति
नेह तन्यते । ' जानाति विश्वासयितुं मनुष्यान् विज्ञातदोषेषु ददाति
दण्डम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा । '
मात्रां विषयाणामनित्यत्वम् ' एकया द्वौ विनिश्चित्य त्रींश्चतुर्भिर्वशे
कुरु । पञ्च जित्वा विदित्वा पट् सप्त जित्वा सुखीभव ॥' बुद्धया
धर्मार्थौ साद्धयौ विनिश्चित्य शत्रुमित्रोदासीनान् सामादि चतुभिं-
रुपायैः स्वाधीनान् कुरु, ज्ञानेन्द्रियादिपञ्च जित्वा षट् सन्ध्यादीन्
स्वाधीननियोज्यान् कृत्वा पानादिसप्तव्यसनानि परिहृत्य सुखी
भवेत्यर्थः ॥ १ ॥