सुभाषितनीवी /86
This page has not been fully proofread.
६८
सुभाषितनीव्यां
' यत्त्रानुकूल्यं दंपत्योस्त्रिवर्गस्तल वर्धते ' इति युक्तम् । जन्तुहिंसा
मखेन, अन्यथा जन्तुहिंसाया निषिद्धत्वात् । प्रज्ञाहीनः स्वत उपायो-
न्नयनानभिज्ञः, परहितविदा आप्तेन सङ्गतः शुद्धिमेति, अनर्था-
निस्तरति । दीपकालङ्कारः ॥ ११ ॥
महदाश्रयणे महात्मानः परार्थैकप्रवणाः परार्थमकृत्यमपि कृत्वा
परार्थ साधयन्तीत्यभिप्रेत्याह-
विशुर्बन्धं प्राप्य व्यतनुत विमुक्तिं व्रजभ्रुवां
स्वतन्त्रोऽसौ धूर्तः स्वयमजनि सूतश्च भजताम् ।
प्रतिज्ञां स्वामौज्झत्स्वपदतटिनीसूनुसमरे
महद्योगात्मायो वहति महिमानं तदधिकम् ॥ १२॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
सदाश्रितपद्धतिः
अष्ठमी ॥
विभुरिति ॥ पुरुषः महद्योगात् तदाश्रयणात् तदधिकं महि-
मानं वहति, प्रायः निश्चय इत्यन्वयः । अत्र निदर्शयति-उलूखले
स्वयं बन्धं प्राप्य यमलार्जुनवृक्षादीनां व्रजभुवां विमुक्तिं व्यतनुत ।
'बद्धं तथा भावयतां मुकुन्दमयत्नविच्छेदिनि कर्मबन्धे । तपस्विनी
तत्क्रतुनीतिराद्या सव्रीडमारण्यकथासु तस्थौ ' इति न केवलमर्जुन-