This page has not been fully proofread.

सदाश्रितपद्धतिः ।
 
६७
 
आचार्यकटाक्षलभ्यार्थी रुद्रेण चतुर्मुखेनेन्द्रेण च न लभ्यत
 
इत्याह-
 
-
 
एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् ।
न तत्तिसृभिरष्टाभिः सहस्रेणापि कर्हिचित् ॥ १० ॥
एकयेति ॥ कर्हिचित् कुत्रचिदपि ॥ १० ॥
 
परस्परसङ्गत्या परिशुद्धानाह-
 
नद्यास्तोयं त्रिदशसरिता राजनीतिः सुकीर्त्या
काव्यालापस्त्रियुगकथया कायवानात्मबुद्ध्या ।
दारप्रीतिः प्रजननधिया जन्तुहिंसा मखेन
प्रज्ञाहीनः परहितविदा संगतः शुद्धिमेति ॥ ११ ॥
 
:
 
नद्या इति ॥ अल्पनद्यास्तोयं गङ्गया सङ्गतं सत् शुद्धिमेतीत्य-
न्वयः । राजनीतिः सुकीर्त्या सङ्गता चेत् । त्रियुगकथया त्रियुगस्य भग-
व्रतः कथया, त्रीणि युगानि ज्ञानबलादियुग्मानि यस्य स तथोक्तः,
अन्यथा 'काव्यालापांश्च वर्जयेत् इति निषेधात् । अत एवोक्तं
भगवता बादरायणेन 'असत्कीर्तनकान्तारपरिवर्तन पांसुलाम् । वाच
शौरिकथालापगङ्गयैव पुनीमहे ॥' इति । कायवान् शरीरी, आत्म-
बुद्धया देहादिविलक्षणात्मज्ञानेन परमात्मज्ञानेन च, 'क्षेत्रज्ञस्येश्वरशा
नाद्विशुद्धिः परमा मता' इत्युक्तम् । दारेषु प्रीतिः, प्रजननधिया वंश.
प्रतिष्ठा भवतीति बुद्धया सङ्गता चेत् शुद्धिमेतीत्यन्वयः । ' धर्मप्र-
जासंपत्त्यर्थं स्त्रियमुद्र हे ' ' प्रजायै गृहमेधिनाम्' इति धर्मोपयोगात् ।