सुभाषितनीवी /84
This page has not been fully proofread.
६६
सुभाषितनीव्यां
स्वतो बुद्धिरहितस्यान्तरिछद्रवतः पुरुषार्थव्यापाराः हितकारिपरो-
पदेशेनैवेत्याह---
स्वतःचैतन्यहीनस्य विषमच्छिद्र भागिनः ।
कस्यचित्प्राज्ञमूलाः स्युः पुरुषार्थप्रवृत्तयः ॥ ७ ॥
स्वत इति ॥ चैतन्यहीनस्य अचेतनस्य, विषमस्य गुणवैषम्य-
वतः, छिद्रभागिन:, ' सच्छिद्राण्यवयविद्रव्याणि ' इति प्रसिद्धेः ।
कस्यचित् प्रधानस्य पुरुषार्थप्रवृत्तयः जीवार्थदेहेन्द्रियपरिणामादि-
व्यापारा:, प्राज्ञमूला: परमात्ममूला: । स्पष्टमन्यत् । अत्र प्रधानं
निदर्शनम् ॥ ७ ॥
महदाश्रयो महानेव भवतीत्याह-
महान्तं पुरुषं प्राप्य कंचित्सत्त्वप्रवर्तकम् ।
प्रतिबुद्धो जनस्तेन परमं साम्यमक्षुते ॥ ८ ॥
'
महान्तमिति । प्रतिबुद्धो जनः विवेकी मोक्षकामश्च, 'महान्
प्रभुर्वै पुरुषः सत्त्वस्यैव प्रवर्तक : ' ' निरञ्जनः परमं साम्यमुपैति
इति श्रुती अनुसन्धेये । मुक्तपुरुषोऽत्र निदर्शनम् ॥ ८ ॥
प्रकारान्तरेणापि महाजनाश्रयेण तदन्तर्गतत्वमभिप्रेत्याह-
सूत्रं रत्नसमावेशाच्चर्म सत्पदसंश्रयात् ।
.
तदभेदेन गृह्येत तृणमप्यस्त्रमन्त्रणात् ॥ ९ ॥
सूत्रमिति । किमुत पुरुष इति काव्यार्थापत्तिर्व्यज्यते, तथा वर्ति-
तव्यमिति भावः ॥ ९ ॥