सुभाषितनीवी /83
This page has not been fully proofread.
सदाश्रित पद्धतिः ।
६५
स्वदृष्टीति । स्वदृष्टिप्रतिघातेऽपि स्वस्याज्ञाने सत्यपि स्वचक्षूर-
इमीनां प्रसरणप्रतिबन्धेऽपि च, स्वच्छे यत्र वचन परिशुद्धज्ञानादिमति
दर्पणे च, शोभनः प्रकाशमानः, तत्र गुरौ दर्पणे च अभिमुखः,
स्वात्मा, झडित्येव शीघ्रमेव, प्रकाशते । नायनरश्मय एव दर्पणे प्रति-
हतगतयः परावृत्य स्वमुखं गृह्णन्तीत्याहु: । 'आभिमुख्यदशामात्रादा-
दर्श इव सजनः । शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ॥
इति नीतिवेदिनः ॥ ४ ॥
* शिक्षके हरिताकारो मेरौ नीलतनुर्द्विजः ।
अपूर्ववर्णवद्भाति सत्यनिष्ठे च कौशिकः ॥ ५ ॥
महदुपदेशप्राप्तं ज्ञानं अज्ञाननिवृत्तिं समृद्धिं च तनोतीत्याह-
कलङ्किनि जले कापि सौरं प्रतिफलन्महः ।
तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ॥ ६ ॥
कलङ्किनीति ॥ कलङ्कनि अङ्कवति अपवादवत्यपि, जले उदके,
चन्द्रस्य जलविकारत्वात् जडे च, प्रतिफलत् प्रविशत्, सौरं सूर्यसम्बन्धि
सूरि संबन्धि च, मह: तेज: ज्ञानं च, तमोऽपहत्वं अज्ञाननिवृत्तिं च
दिने दिने, समृद्धिं कलावृद्धिं ज्ञानवृद्धिं च तनुते । अत्र सूर्यतेजो
गुरूपदिष्टज्ञानस्य निदर्शनम् । 'ज्ञानाङ्कुरं तत् परिवर्धयन्ति ये
शास्त्रसत्सङ्गतितोयसेकैः । ते तु प्रबुद्धात् फलमाप्नुवन्ति मोक्षाभिधं
ज्ञानतरोर्दुरापम् ।' इत्याद्यनुसन्धेयम् ॥ ६ ॥
* अस्य श्लोकस्य रत्नपेटिकाव्याख्या गोपलभ्यते ।