सुभाषितनीवी /82
This page has not been fully proofread.
६४
सुभाषितनीव्यां
उपरागः प्रादिसमासः, तेन न गृह्यते न पीड्यते । अत्र चन्द्रः सूर्यश्च
निदर्शनम् । तत्र पक्षे प्राक् प्रतिपत्प्राप्तितः प्राक्,
आपदा पर्वणि
राहुकेतुग्रहपीडया उपलक्षितोऽपि तदनन्तरं राजा चन्द्रः तदितर:
सूर्यः उपरागेण राहुग्रसनेन न गृह्यते । ' उपरागो ग्रहे राहुग्रस्ते
त्विन्दौ च पूष्णि च' इत्यमरः ॥ २ ॥
महाजनयोगात्पुरुषः प्रसिद्धो भवतीत्याह-
विषमो गुणभेदेन विकारान् जनयन् क्रमात् ।
समये महता योगादहंकारः प्रतीयते ॥ ३ ॥
विषम इति ॥ गुणभेदेन सत्त्वरजस्तमोगुणभेदेन विषमः भिन्न-
भिन्नप्रकृतियुक्तः, गुणसाम्यावस्था प्रधानस्य प्रलयः, वैषम्यावस्था
सृष्टिरिति गुणवैषम्ययुक्तश्च क्रमात्, महदादिविकारांश्च जनयन
कृर्वन् प्रधानाख्यपदार्थ इत्यर्थ: । समये भाग्यपरिपाकसमये सृष्टि-
काले च, अहंकारः प्रत्यगात्या, अथातोऽहंकारावंश इत्यादिषु जींव
Sहंकारशब्दप्रयोगात् ; अहमिति कारयति उच्चारयतीत्यहंकारः । पदं
मिथ्याकारयत इत्यादौ कृञ इत्युच्चारणार्थत्वदर्शनात् अहंकार इति
तत्वविशेषश्च सन्, महता महापुरुषेण महत्तत्वेन च योगात्, प्रती-
यते प्रसिद्धो भवति अहंकारतत्त्वात्मना ज्ञायते चेत्यर्थः । अत्र प्रधानं
निदर्शनम् ॥ ३ ॥
सत्पुरुषाभिमुख्यात् स्वरूपज्ञानवान् भवतीत्याह--
स्वदृष्टिप्रतिघातेऽपि स्वच्छे वचन शोभनः ।
तत्राभिमुखः स्वात्मा झाडत्येव प्रकाशते ॥ ४ ॥