सुभाषितनीवी /81
This page has not been fully proofread.
सदाश्रितपद्धतिः ।
सुवृत्तस्यावदातस्य कलापूर्णस्य सत्पतेः ।
क्षणलेशग्रहेऽपि स्यादतीर्थस्यापि तीर्थता ॥। १॥
सुवृत्तस्येति । सुवृत्तस्य सदाचारम्य, अवदातस्य रागादिदोष-
हीनस्य, सत्पतेः सत्पुरुष श्रेष्टस्य, चन्द्रस्य च ; क्षणलेशेऽल्पकाले
ग्रहेऽपि स्वीकारेऽपि उपरागेऽपि च, अतीर्थस्य अयोग्यस्यापि
तीर्थता योग्यता भवति । महदाश्रयणादयोग्योऽपि योग्यो भवती-
त्यर्थः । सर्वे गङ्गासमं तोयमिति जलमात्रस्य पुण्यतीर्थत्वं भवतीति च;
निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः । ' पशुर्मनुष्यः
पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं
पदम्' इत्यादिकमनुसंधेयम् ॥ १ ॥
'
सदाचार्य समाश्रितस्य ज्ञानप्राप्त्या न रागादिदोषसंभव इत्याह-
प्रतिपत्प्राप्तितः प्रागप्यापदा सत्पदाश्रितः ।
राजा तदितरो वापि नोपरागेण गृह्यते ॥ २ ॥
प्रतिपदिति ॥ प्राक् ज्ञानलाभात् प्राक् आपदा तापत्रयदुःखेनो-
'
पलक्षितोऽपि इति शेषः । सत्पदाश्रितः प्रतिपत्प्राप्तितः ज्ञानप्राप्तितः
प्रतिपत् शन्तिचेतना: ' इत्यमरः; राजा तदितरो वापि, उपहतो राग