सुभाषितनीवी /80
This page has not been fully proofread.
६२
सुभाषितनीव्यां
विषमेष्वपि भावयन्समत्वं
पुरुषः कोऽपि हृदि स्थितः प्रजानाम् ॥ १२ ॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
समचित्तपद्धतिः
सप्तमी ॥
विषयेष्विति ॥ विषयाभिलाषरहिततया तत्प्रयुक्तरागद्वेषादिदोष-
लेशहीनः, नानाविधस्थानस्थितत्वेऽपि हेयप्रतिभटतया तत्प्रयुक्तापुरु-
पार्थादिरहितश्च, प्रलयेऽपि सङ्कटदशायामपि धैर्येणाक्षयां स्थितिं
दधानः,
'एको ह वै नारायण आसीत् ' इत्युक्तरीत्या प्रलयेऽपि
स्थितिं दधानश्च, विषमेषु विरुद्धेष्वपि समत्वं भावयन् उपेक्षाबुद्धिं
कुर्वन् 'समोऽहं सर्वभूतेषु' इति समदृष्टिं कुर्वेश्च; यद्वा विषमेषु
सत्त्वरजस्तमस्स्वपि समत्वं प्रलयावस्थां भावयन् पुरुषः प्रजानां हृदि
स्थितः समीचीन इति मनस्यनुसंहितः, अन्तर्यामिरूपेण स्थितश्च ।
अत्र परमपुरुषसाम्यम् ॥ १२ ॥
इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य
श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी-
व्याख्यायां रत्नपेटिकाख्यायां