This page has not been fully proofread.

समचित्तपद्धतिः ।
 
६१
 
विदधातु धाम तमसा कृतेन किं
 
यदि वा न वेत्ति नविधिर्न वा वयम् ।
प्रथमोपकारि चरमं यतस्ततः
 
प्रतियोगीनो भवति तस्य सार्थता ॥ ११ ॥
 
विदधात्विति ॥ विधिः, धाम तेजः, विदधातु सृजतु, आलोकस्य
चाक्षुषप्रत्यक्षादिहेतुत्वेन लोकोपकारत्वादिति भावः । कृतेन तमसा किं
तमः सृष्ट्या किं प्रयोजनम्, लोकप्रतिबन्धकत्वादिति भावः । एवं
चोद्ये उत्तरमाह ---- यदिवेति । पश्चान्तरे विधिर्न वेत्तीति न तत्प्रयोजनं
न जानातीति न जानात्येव, न वा वयं वयं वा न विद्म इति नेत्य-
नुषङ्गः, यतः कारणात् चरमं तमः प्रथमोपकारि आलोकस्योपकारकं,
तमःसृष्टयभावे आलोकापेक्षाविरहात्, ततः कारणात् तस्यालोकस्य
प्रतियोगिनः तमसः सार्थता भवति, तमसोऽभावे आलोकप्रयोजनं
न ज्ञायेत, अतः तमः सृष्टवानिति भावः । ' हस्त इव भूतिमलिनो
यथा यथा लङ्घयति खलः सुजनम् । दर्पणमिव तं कुरुते तथा तथा
निर्मलच्छायम् ।' ' साधुपापविशुद्धयर्थं दुर्जनः परिकल्पितः ।
ग्रामवधीविशुद्धयर्थं सूकरः परिकल्पित: ' इत्यादि दृष्टव्यम् ॥ ११॥
 
सर्वसमः पुरुषः सर्वेषां हृदयंगम इत्याह-
 
विषयेष्वपि दोषगन्धहीनः
 
प्रलयेऽपि स्थितिमक्षयां दधानः ।