This page has not been fully proofread.

६०
 
सुभाषितनीव्यां
 
अहार्येण कदाप्यन्यैरसंहार्येण केनचित् ।
तितिक्षाकवचेनैव सर्व जयति संहृतः ॥ ९ ॥
 
अहार्येणेति ॥ तितिक्षाकवचेन संवृतः आच्छादितः जयति सर्व-
मतिशेत इत्यर्थः । ' हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् '
इति क्रोधनिवृत्तौ न कश्चिदपि वैरीति सर्वे स्वाधीना एवेति जय इति
भावः । लौंहकवचापेक्षया तितिक्षाकवचस्य व्यतिरेकः तत्सहकृ-
तश्च परिणामालङ्कारः, स्वरूपेण सर्वजयासाधनत्वादारोप्यमाणस्य कव-
चस्य तितिक्षात्मना उपयोगात्, ' परिणामः क्रियार्थश्चेद्विषयी
 
विषयात्मना ' इति तल्लक्षणात् ॥ ९ ॥
 
भगवदेकान्ती भगवद्वयतिरेकेण किमपि नापेक्षते, अतः स एव
 
समचित्त इत्याह--
 
अमृतस्यन्दिनं कश्चित्कृष्णमेघं द्विजः स्मरन् ।
उदन्यया न वेशन्तमुदन्वन्तं च वीक्षते ॥ १० ॥
 
अमृतेति ॥ कश्चित् द्विजः चातकः, अमृतस्यन्दिनं उदकव-
र्षिणं नीलमेघं स्मरन, उदन्यया पिपासया, ' उदन्या तु पिपासा
तृद् तर्षः' इत्यमरः । वेशन्तं अल्पसरः, उदन्वन्तं समुद्रं च न वीक्षते !
मोक्षप्रदं कृष्णं लचीकृत्य पुरुषार्थे सया ब्रह्मरुद्रादीन् लौकिकक्षु-
द्रानपि कश्चिद्भाग्यवान् न वीक्षत इत्यर्थः ॥ १० ॥
 
समचित्तस्य दुर्जनसृष्टिरप्युपकारायैवेति मतिरित्यभिप्रेत्याह-