This page has not been fully proofread.

समचित्तपद्धतिः ।
 
अनुज्झितसुहृद्भावः सुहृदां दुर्हृदामपि ।
 
सम इत्येव भाव्योऽपि नम इत्यभिभाष्यते ॥ ६ ॥
 
५९
 
अनुज्झितेति ॥ स्पष्टम् । समं इति वक्तव्ये नम इत्युच्यत
इति चित्रमिति भावः ॥ ६ ॥
 
:
 
'दुजर्नः सुजनं द्वेष्टि ' इति दुष्टैः पीड्यमानोऽपि न विकारं
गच्छतीत्याह-
 
मरुद्भिः पीड्यमानोऽपि संत्यक्तोऽपि दिवानिशम् ।
विषयस्नेहरहितो रत्नदीपः प्रकाशते ॥ ७ ॥
 
मरुद्भिरिति । विषयस्नेहरहितः पात्रतैलरहितः विषयाभिला-
परहितश्च ; विषयाभिलाषिणः खलु तदभावे मनोविकारः । रत्नदीप:
प्रकाशते । प्राप्ते विबुधो यथा प्रकृत्यास्ते 'न विकारं व्रजति महांश्चा-
तुर्मास्येष्विवाज्यपशुशब्दः ॥ इति नयमालिकायां मामकः श्लोकः ॥
जनयत्यनले दाहं शमयत्यपि तोयदे ।
 
अभिः स्थीयते पुण्यैराश्रमारण्यपादपैः ॥ ८ ॥
 
जनयतीति ॥ अभिन्नैः एकरूपैः; स्थीयते स्थितम्, भावे लट् ॥
 
'
 
लाभः श्रीमत्तरं किंचिदन्यत्पथ्यतरं मतम् । प्रभविष्णोर्यथा ना
 
क्षमा सर्वत्र सर्वदा ॥ क्षमेदशक्तः सर्वस्य शक्तिमान् धर्मकारणात् '
इति महात्मानः क्षमयैव सर्वे जयन्तीत्याह --