This page has not been fully proofread.

५८
 
सुभाषितनीव्यां
 
नित्यसन्तुष्टानां महात्मनां पदार्थसत्त्वे तदभावे चैकरूपचित्ततैव,
 
न विकारित्वमित्याह -
 
प्रतिगृह्णति जीमूते प्रत्यर्पयति वा स्वयम् ।
अपूरणमपांपत्युः पूरणं च न लक्ष्यते ॥ ४ ॥
 
प्रतीति । जीमूते मेघे प्रतिगृह्णाति समुद्रोदकं पिवति सति,
प्रत्यर्पयति वर्षाति सति वेत्यर्थः । ' उदेति सविता ताम्रस्ताम्र एवा-
स्तमेति च । उत्पत्तौ च विपत्तौ च महतामेकरूपता ॥ ' इत्याहुः ।
 
'छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य । इति न्यायेन
महात्मानः सर्वत्र समस्वभावा इत्याह-
 
छिद्रं जनयतां नीचैरच्छिद्रं बिभ्रतामपि ।
त्रासहीनाः सुमणयः स्वभावादुपकुर्वते ॥ ५ ॥
 
नीचैः निकृष्टपुरुषैः
 
छिद्रमिति ॥ नीचैः अधोभागे छिद्रं रन्ध्रं,
अन्तःकलहं च, अछिद्रं हीरमण्यादिकमिति भावः । त्रासो नाम
मणिदोषः । तदुक्तं बाहलेन ' रागस्त्रासश्च बिन्दुश्च रेखा च जलग-
भता । सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ।' इति । अन्यत्र
भयं, तद्रहिताः सुमणयः स्वभावादुपकुर्वते; ' अथवा भवतः प्रव-
र्तना न कथं पिष्ठमियं पिनष्ठिनः । स्वत एव सतां परार्थता ग्रह
णानां हि यथा यथार्थता ।' इति श्रीहर्षः ॥ ५ ॥
 
समचित्तस्वभावं सर्वेऽपि प्रणमन्तीत्याह -