This page has not been fully proofread.

समचित्तपद्धतिः ।
 
५७
 
प्रकाशयन्, चकोरानादरं नाभिसन्धत्ते, स्वप्रकाशनेन चन्द्रे निस्तेज -
स्के सति चकोराणां चन्द्रिका मास्त्विति सूर्यस्याभिसन्धिर्नास्ति, तथा
चक्रवाकस्यादरं च नाभिसन्धत्ते, स्वप्रकाशनेन चक्रवाकस्य स्त्रिया
संभोगो भवतु इति अभिसन्धिर्नास्ति इत्यर्थः । विश्वप्रकाशनमेव
तस्य कार्ये, तत्तददृष्टानुगुण्येन आनुकूल्यानानुकूल्ये इति भावः ॥
क्षुद्राणां देशकालवशेन वैषम्ये सत्यपि महतां कदापि न वैष-
म्यमित्याह--
 
देशकालविशेषेण विषमत्वं समत्ववत् ।
 
निशादिवस योर्हष्टमहोरात्रस्य न कचित् ॥ ३ ॥
 
देशकालेति । निशादिवसयोः देशकालविशेषेण समत्ववत् विषम-
त्वं च दृष्टम् । निशादिवसयोः कदाचित् प्रत्येकं त्रिंशद्धटिकात्मकत्ववत्
देशविशेषेण लङ्कोदयादिषु उदयास्तमययोर्वैषम्यं भवति । कालविशे-
पेण, निशायास्त्रयस्त्रिंशद्धटिकात्मकत्वम्, दिवसस्य सप्तविंशतिघटिका-
त्मकत्वम्, तथा दिवसस्य त्रयस्त्रिंशद्वटिकात्मकत्वं निशायाः सप्तत्रिंश-
तिघटिकात्मकत्वमित्यादि भवतीत्यर्थः । अहो रात्रेश्व समाहार:
अहोरात्रः, 'अहस्सर्वैकदेशसंख्यात पुण्याच्च रात्रेः' इति समासान्तो ऽ-
च्प्रत्ययः, 'रात्राह्णाहाः पुंसि' इति पुल्लिंगत्वम्, 'रूपरात्रिरथन्तरेषु
त्वं वाच्यम्, इति एकदेशविकृतस्यानन्यत्वाद्रात्रशब्देऽपि रुत्वम् ।
अहोरात्रसमुदायस्य क्वचिदपि कदाचिदपीत्यध्याहार्यम् । वैषम्यं न
दृष्टम् । सर्वत्र सर्वदा षष्टिघटिकात्मकत्वमेवेति भावः । अत्राहोरात्रो
निदर्शनम् । अप्रस्तुतप्रशंसालङ्कारः ॥ ३ ॥
 
,