सुभाषितनीवी /74
This page has not been fully proofread.
समचित्तपद्धतिः ॥
अथ समचित्तत्वं महाजनस्य धर्म इति समचित्तपद्धतिरारभ्यते-
पुंसः कस्य चिदास्थाने द्विजेन्द्रः सूरिसेविते ।
गुणवत्पक्षपातेऽपि मध्ये तिष्ठति मानभृत् ॥ १ ॥
पुंस इति ॥ सूरसेविते कस्य चित्पुंसो महाप्रभोरास्थाने, गुणवत्सु
पक्षपाते सत्यपि व्यवहारवेलायां, मानभृत् प्रमाणान्यनुसरन्,
मध्ये तिष्ठति वादिप्रतिवादिनोर्मध्यस्थो भवति, पक्षपात्यपि मध्यस्थ
इति विरोधाभासः । अत्र निदर्शनम् - कस्यचित्पुंसो रङ्गनायकस्य
नित्यसूरिसेविते आस्थाने, द्विजेन्द्रो गरुत्मान् गुणवत्पक्षपातेऽपि
आवृत्तिमत्पक्षप्रसरणे सत्यपि मानभृत् पूजां बिभ्रत् मध्ये तिष्ठति
रङ्गमण्टपमध्ये तिष्ठति । 'गुणस्त्वावृत्तिशब्दादिवेन्द्रिय । मुख्यतन्तुषु '
इति रत्नमाला ॥ १ ॥
महाजना:सर्वत्र समबुद्धय एव तेषु केषांचिदादरः केषांचिदना-
दरश्च तत्तत्पुरुषस्वभावाद्भवतीत्याह—
चकोरानादरं देवश्चक्रवाकस्य चादरम् ।
विवस्वान् नाभिसंधत्ते विश्वमेतत्प्रकाशयन् ॥ २ ॥
चकोरेति । देवः प्रकाशमानः, विवस्वान् सूर्यः, एतद्विश्वं जगत्,