सुभाषितनीवी /72
This page has not been fully proofread.
५४
सुभाषितनीव्यां
सज्जनाख्यं चित्रं निर्मितवानित्यर्थः । चित्रमिति निगीर्याध्यवसायलक्ष-
णातिशयोक्तेः श्लेषमूलाभेदाध्यवसायलक्षणातिशयोक्तेरङ्गमिति तयोः
सङ्करः। अप्रस्तुतविधिस्तुत्या सज्जनस्तुतिर्गम्यत इति व्याजस्तुत्यलङ्का-
रः, तदङ्गं 'गरुत्मति सुपक्षतां ' इत्यादिषु समालङ्कार इति सङ्करश्चेति
तयोः सङ्करयोरपि सङ्करः ॥ ११ ॥
सज्जनेषु दारिद्यमस्ति चेत् तेषां किं न्यूनं ? ' तदभाग्यं धनस्यैव
यन्नाश्रयति सज्जनम्' इति धनस्यैव वैयर्थ्यम् । ते तु, अतिचञ्चलाः
संपदः, शान्तिसुखामृतनदीलीनाः सन्तो न श्लाघन्त इत्याह-
प्रशस्ति विन्दन्ति प्रशमसुखदिव्यामृत सरि-
त्मलीना धन्यानां परिषदि न संपत्तिसरितः ।
अमित्रोपक्षेपक्षणविगलदात्मीयपृतना-
दृढा मर्दत्रस्यद्दमिड भटजङ्घाजवभृतः ॥ १२ ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य
श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु सुभाषितनीव्यां
महापुरुषपद्धतिः
षष्ठी ॥
प्रशस्तिमिति ॥ ' शरीरपतनावधिप्रभुनिषेवणापादनादबिन्धनध-
नञ्जयप्रशमदं धनं दन्धनम् । धनञ्जयविवर्धनं धनमुदूढगोवर्धनं