सुभाषितनीवी /71
This page has not been fully proofread.
महापुरुषपद्धतिः ।
५३
पूतना इति । शतं शतं वृष्टिवहास्ताः सर्वा अमृताः स्त्रियः ॥
इति ॥ ९ ॥
क्षुद्रा एवं क्षुद्राणां धर्षणीया न महान्त इत्याह-
अहितुण्डिकदृष्टीनामशेषा भोगिनः पदम् ।
न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ॥ १० ॥
अहीति ॥ अहितुण्डिकदृष्टीनां व्यालग्राहिदृष्टीनाम्, मन्त्रौषधा-
दिव्यापाराणामित्यर्थः, 'व्यालग्राह्यहितुण्डिकः ' इत्यमरः । अशेषाः
शेत्रभिन्नाः भोगिनः सर्पाः पदं विषयः ; यन्मुखमारुतः येषां
सर्पाणां मुखमारुतः, संवर्ताग्निसारथ्ये प्रलयकालाग्निसहायभावे न
स्थाता, ष्ठा गतिनिवृत्तावित्यस्माल्लुट् । शेषमुखमारुतस्तु प्रलयका-
ला: सहायीभूय जगत् नाशयति, तादृशं शेषं कः परिभवेदिति भावः ॥
'
अयोग्य घटनस्वभावोऽपि विधिः क्वचिद्येोग्यघटनेन श्लाघनी-
योऽपि भवतीत्याह-
गरुत्मति सुपक्षतां गिरिधुरंधरे धीरता-
मुदन्वति गभीरताममृतदीधितौ सौम्यताम् ।
विवस्वति च दीप्ततां विधिरुपादधानश्चिरा-
दनर्घगुणचित्रितं किमपि चित्रमासूत्रयत् ॥ ११ ॥
गरुत्मतीति ॥ गिरिधुरंधरे गिरिश्रेष्ठे । विधिः, अनर्घगुणैः सुपक्ष-
त्वादिगुणैः, चित्रितं आश्चर्यविषयीकृतम्, किमपि चित्रं सज्जनाख्याले -
ख्यम्, आसूत्रयत् घटितवान् । एकैकं सद्गुणमन्यत्र विधायाभ्यसित्व