सुभाषितनीवी /70
This page has not been fully proofread.
५२
सुभाषितनीव्यां
कर्मणो दूराद्गन्धो वाति' इति श्रुतिः स्मारिता । सुमनसः ज्ञानिनः
पुष्पाणि च 'सुमनाः पुष्पमालत्योः स्त्री देवबुधयोः पुमान्' इत्यु-
भयत्रापि, त्रिदशैः देवैरपि सादरं शिरसा परिगृह्यन्ते ' सर्वेऽस्मै देवा
बलिमावहन्ति ' इति श्रुतेः । अत्र पुष्पसाम्यम् ॥
'यश्चात्मनापत्रपते भृशं नरः सर्वस्य लोकस्य गुरुर्भवत्युत । अन-
न्ततेजा: : सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते ॥ ' इत्युक्तम-
हापुरुषे तदनुग्रहेण मन्दानामपि मैत्री भवतीत्याह --
अनुकर्तुमपह्नोतुमतिवर्तितुमीक्षितुम् ।
अशक्ये तेजसां पत्यौ मित्रतानुमतिक्षमा ॥ ९ ॥
अनुकर्तुमिति ॥ अनुकर्ते सदृशीभवितुम्, अपह्नोतुं किमस्य
माहात्म्यमिति निषेद्धुम् सूर्य इति कश्चित्तेजस्वी अस्ति वेति निषे-
ढुं च, अतिवर्तितुं निराकर्तुम् अतिलङ्गितुं च; केनापि सूर्यस्य पश्चा-
द्भागादृष्टेरिति भावः । ईक्षितुं क्षुद्राणां दर्शनं कर्तु तेजसो दृष्टिप्रति
घातकत्वादवलोकितुं च, अशक्ये तेजसां पत्यौ तेजस्विनि पुरुषे सूर्ये
च, मित्रता सुहृत्त्वं सूर्यत्वं च, अनुमतेः अनुज्ञायाः क्षमा अभ्युपगम-
योग्या, अनुमतिः पूर्णिमाभेद:, ' कलाहीने सानुमति: ' इत्युक्तेः ।
तस्याः क्षमा सूर्यकिरणानामेव चन्द्रकला पूर्तिहेतुत्वात्, 'यमादित्या अं-
शुमाप्याययन्ति' इति श्रुतेः 'यत्रामुष्य सुधीभवन्ति किरणाः' इत्यादि-
प्रसिद्धेश्च । अत्र यादवः - 'तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने ।
-
शतत्रयं हिमोत्सर्गे तावद्धर्मस्य सर्जने । आनन्दनाश्च मेध्याश्च नृतना: