This page has not been fully proofread.

महापुरुषपद्धतिः ।
 
५१
 
मधीबलः बुद्धिबलयुक्तः, श्रुतिदृष्टिः भगवान् तस्मिन् स्थिरचित्तः,
यद्वा श्रुतिदृष्टिरिति व्यस्तं पदम् 'श्रुतिस्मृती तु विप्राणां चक्षुषी
द्वे विनिर्मिते' इत्युक्तरीत्या वेदार्थदर्शी । अन्यत्र चक्षुश्श्रवाः बहु-
मुग्वं भोगं सुखं सहस्रमुखं शरीरं च धत्ते । ' भोगः सुखे त्र्यादि-
भृतावहेश्व फणकाययो:' इत्यमर: । अत्र शेषसाम्यम् ॥ ६ ॥
 
महाजन एव सतां सेव्य इत्याह-
 
अहार्यः सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् ।
सत्प्रदक्षिणयोग्यत्वमुपयाति महोन्नतः ॥ ७ ॥
अहार्य इति ॥ अहार्यः कुग्भिः प्रतारयितुमशक्यः, पर्वतश्च,
अहार्यधरपर्वताः' इत्यमरः । सर्वमध्यस्थ: अपक्षपाती सर्वभूमण्डल-
मध्यवर्ती च । कांचन अनिर्वाच्यां द्युतिं तेजः उद्वहन्, सुवर्ण-
मयश्व, महोन्नतः सर्वोत्कृष्टः अत्युन्नतश्च सतां सत्पुरुषाणां नक्ष-
त्राणां च प्रदक्षिणयोग्यत्वमुपयाति । अत्र मेरुपर्वतसाम्यम् ॥ ७ ॥
 
,
 
महात्मानो देवैरपि शिरसा प्रणम्यन्त इत्याह-
 
पुण्यगन्धाः सुमनसः प्रबुद्धाः समयागमे ।
शिरसा परिगृह्यन्ते सादरं त्रिदशैरपि ॥ ८ ॥
 
पुण्यगन्धा इति ॥ समयागमे सिद्धान्तशास्त्रे वसन्तादिकाले
च, प्रबुद्धा: ज्ञानवन्तो विकसिताश्च पुण्यगन्धाः पुण्यसंबन्धवन्तः
मनोहरपरिमळाश्च 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः '
इति विश्वः । ' यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य