सुभाषितनीवी /68
This page has not been fully proofread.
५०
सुभाषितनीव्यां
महात्मनां सम्पत्तिः सार्थकत्वादलंकार इत्याह--
अनङ्गीकृतकामानामनुमानार्हवर्ष्मणाम् ।
धृतनिर्मलतीर्थानां भूतिलेपो विभूषणम् ॥ ५ ॥
अनङ्गीकृतेति ॥ अनङ्गीकृतः अस्वीकृतः कामो विषयाभि-
लात्रो यैः तेषां शरीररहितीकृतमन्मथानां च, अनुमानार्हवर्ष्मणां अनु-
मानशब्देन व्याप्तिमूलकत्वात्तर्क उच्यते, सत्तर्कानुगृहीतप्रत्यक्षानु-
मानागमानामित्यर्थः । अन्यत्र नार्ह अनर्हे, नञर्थस्य नशब्दस्य
सुप्सुपेति समासः । उमाया नाई उमानार्ह तन्न भवतीत्यनुमानार्हम्,
उमायोग्यमित्यर्थः; वर्ष्म देहः येषां ते तथोक्ताः तेषाम्, 'वर्ष्म देहप्र-
माणयोः ' इत्यमरः । धृतं निर्मलं तीर्थे शास्त्रं गङ्गा च यैः तेषां तथो-
क्तानाम्, 'तीर्थे शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इत्यमरः । भूति-
लेपःसंपत्सम्बन्धः भस्मलेपश्च विभूषणम् । रुद्रसाम्यमुक्तम् ॥ ५ ।
' जानाति विश्वासयितुं मनुष्यान् विज्ञातदोषेषु ददाति दण्डम् ।
जानाति *मात्रां च तथा क्षमाञ्च तं तादृशं श्रीर्जुषते समग्रा ॥ '
इत्युक्तरीत्या महाजनस्यैव न्यायानुवर्तिनः सौख्यं भवतीत्याह --
अनन्तख्यातिसंपन्नः शुद्धसत्त्वः सधीबलः ।
.
धत्ते बहुमुखं भोगं श्रुतिदृष्टिस्थिराशयः ॥ ६ ॥
अनन्तख्यातीति ॥ अपरिमितकीर्तिसंपन्नः, अनन्त इति नाम-
संपन्नश्च; शुद्धसत्त्वः रजस्तमोऽनभिभूतसत्त्वगुणः, अधिकबलश्च,
* मात्रां विषयाणामनित्यत्वम् ।