This page has not been fully proofread.

महापुरुषपद्धतिः ।
 
४९
 
विष्णुभक्तिमानेव महाजन इत्यभिप्रेत्याह---
 
मुक्तानुगुणवृत्तानां भजतां पावनीं गतिम् ।
नित्यं विष्णुपदे वृत्तिस्तारकाणां सितात्मनाम् ॥ ३॥
मुक्तेति ॥ मुक्तपुरुषानुरूपव्यापारवतां, मुक्तामणय इवानुसृतगु-
णानां वृत्तानां वर्तुलानां च पावनीं पवित्रकारिणीम् गतिम् उपायं
प्रपत्तिम् भजतां, वायुसम्बन्धिमार्गमाश्रयतञ्च । 'गतिस्तु गमने मार्गे
दशायां बुद्धयुपाययोः' इति विश्वः । सितात्मनां परिशुद्धमनसां शुक्ल-
रूपाणां च, तारकाणां संसारं तारयतां नक्षत्राणां च ' कनीनिकायां
नक्षत्रे तारकं तारकाऽपि च' इति विश्वप्रकाशे नपुंसकत्वमुक्तम् । नित्यं
विष्णुपदे भगवत्पादे आकाशे च वृत्तिः स्थितिः भवति ॥ ३ ॥
महाजनदर्शनं पापनिवर्तकमित्याह -
धर्मसेतुनिविष्टानामचलानां गरीयसाम् ।
दक्षिणोत्तरवृत्तीनां दृष्टिः पापनिवर्तिनी ॥ ४ ॥
 
धर्मेति ॥ धर्मसेतो धर्ममर्यादायां निविष्टानाम् । 'द्वौ समुद्रौ
विततावज्र्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अतियन्त्यन्य-
मपश्यन्तः सेतुं नातियन्त्यन्यम् ' इत्युक्तरामसेतौ निविष्टानां च; अच-
लानां स्थिरचित्तानाम्, दक्षिणाः समर्थाः उत्तरा उत्कृष्टा वृत्तिः वर्तनं
येषां ते तथोक्ताः तेषाम्, गरीयसां महात्मनाम् । अचलपक्षे उत्तर-
दिग्भागमुपक्रम्य दक्षिणाभिमुखं स्थितानां गरीयसां अचलानां गन्ध-
मादनप्रभृतिमहा पर्वतानां दृष्टिः पापनिवर्तिनी ॥ ४ ॥
 
4