This page has not been fully proofread.

४८
 
सुभाषितनीव्यां
 
विश्वः ॥ असत्त्वे खे आकाशे पुष्पवत् स्थितत्वं रात्रौ तथाभानात्,
जातु कदापि तस्य सूर्यस्य तत्ताभ्यां नक्षत्रसत्त्वासत्त्वाभ्यां, खपुष्पत्वं
नास्तीति, तेषां नक्षत्राणां मध्ये, स विश्वदृक् जगच्चक्षुः । प्रकृताप्र-
कृतश्लेषः, तेनोपमालङ्कारो व्यज्यते ॥ १ ॥
 
महाजनः सतां नियमनेन शिष्टानां ब्राह्मणादीनां स्वसूत्रानुगुण्येन
प्रवृत्ति निवृत्तिं च न भिनत्तीत्याह-
 
सन्नियोगेन शिष्टानां वर्णादीनां स्वसूत्रतः ।
 
प्रवृत्तिं च निवृत्तिं च न भिन्द्यात्साधुशब्दवत् ॥ २ ॥
 
,
 
सन्नियोगेनेति ॥ स्वसूत्रतः आपस्तम्बादिसूत्रानुसारेण, व्या-
करणसूत्रानुसारेण च, शिष्टानां सत्पुरुषाज्ञया शिक्षितानाम्, सहविहि-
तानां च, वर्णादीनां ब्राह्मणादीनाम्; आदिशब्देनाश्रमादीनां ग्रहणम् ;
वनोरचेत्यादिना ङीबादिसन्नियोगेन शिष्टानां रेफादिवर्णानां च
साधुशब्दवत् साधुशब्दानामित्र तत्र तस्येति वतिप्रत्ययः । प्रवृत्तिं
'शास्त्राधीशे शक्तियुक्ते ' इति बृहस्पतिमौढ्यादिषु प्रथमोपाकर्मादिषु
प्रवृत्तिं शुक्र मौढ्यादिषु निवृत्तिं ङीबादिना सह रेफादीनां प्रवृत्ति
तदभावे तदभावं 'औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः साधुत्वं
च' इत्यादिषु औत्वाद्यन्ते उत्वनिवृत्तिमित्यादिकं, न भिन्द्यात् महा-
पुरुषो न निरुन्ध्यात्, अपि तु प्रवर्तयेत्; अर्हार्थे लिङ् अनाशीरर्थक-
त्वेन सार्वधातुकत्वात् श्नम् । यासुटो ङित्वात् ; ' नसोरल्लोपः' इत्य-
लोपः । नकारमात्रस्य श्रवणम्, सन्नियोगविशिष्टानां सह वा प्रवृत्ति:
सह वा निवृत्तिरिति न्यायोऽत्रानुसन्धेयः । उपमालङ्कारः
 
२ ॥