This page has not been fully proofread.

महापुरुषपद्धतिः ॥
 
एवमज्ञानमूलदोषविषयपद्धती: प्रणीय अनन्तरं ज्ञानमूलगुण-
विषयपद्धतयः प्रणीताः । तत्र सकलगुणानामाश्रयत्वान्महापुरुषस्य
 
महापुरुषपद्धतिः प्रथममुक्ता-
 
-
 
सतामेव खपुष्पत्वं येषां यत्सदसत्रयोः ।
न जातु तस्य तत्ताभ्यामिति तेषां स विश्वदृक् ॥ १ ॥
 
सतामिति ॥ यत्सदसत्त्वयो: यस्य महापुरुषस्य सदसत्त्वयोः,
येषां सतामेव, खपुष्पत्वं अप्रसिद्धत्वम्; सर्वज्ञस्य सत्त्वे इतरजना -
नामप्रसिद्धत्वम्, तदसत्त्वेऽपि सतामेव खपुष्पत्वं शून्यत्वम् । सन्मा-
र्गप्रकाशकस्य महाजनस्याभावे सत्पुरुषदौर्लभ्यमित्यर्थः । जातु कदा-
चिदपि तस्य महापुरुषस्य तत्ताभ्यां तेषां सतां ताभ्यां सत्त्वासत्त्वा-
भ्याम्, न वपुष्पत्वं नास्तीत्यर्थः । सतां सत्त्वे सर्वज्ञस्याप्रसिद्धत्वं
नास्ति, असत्त्वे च शून्यत्वं नास्तीति एवं तेषां सतां मध्ये, म विश्व-
दृक् सर्वज्ञः । अत्र निदर्शनम् -- विश्वहक जंगच्चक्षुः सूर्य: 'कर्मसाक्षी-
जगच्चक्षुः' इत्युक्तेः । यत्सदसत्त्वयो: यस्य सूर्यस्य सदसत्त्वयोः, सतां
नक्षत्राणामेव स्वपुष्पत्वं सत्त्वे व शून्यं पुष्पं विकासो येषां तत्त्वम्;
दिवा नक्षत्रसत्त्वेऽप्यस्फुरणात् । 'स्वमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ
विहायसि । पुष्पं विकासे कुमुमे स्त्रीणां रजसि च स्मृतम् इति
 
)