सुभाषितनीवी /64
This page has not been fully proofread.
४६
सुभाषितनीव्यां
तरत्विति ॥ विवित्सया धनलाभेच्छया, विद्ल लाभ इत्यस्मात्सन्
अब्धिं तरतु, नावा देशान्तरं गच्छतु; कामचारे लोट्, ततोऽनिष्टं
नास्तीत्यर्थः, धातुवर्गे अश्मविकारसमूहम्; सुवर्णीकरणाय धमतु च
पुटपाका निक्षिप्य मुखेन वायुफूत्कारं करोतु ; अधिगच्छतु
शस्त्रमुखम्, तदपि शक्यमेवेति भावः ; धनलाभाय खड्गप्रहारादिसह-
नात् । भिया भयेन, कुत्र को वापराधः स्यादिति भयेन बहु यथा
भवति तथा अवधाय अप्रमादेन स्थित्वा ; 'प्रमादोऽनवधानता' इत्य-
मरः । धनमदेन मेदुराणां क्षितिभृतां, अङ्गणे चङ्क्रमणं गृहे परि-
भ्रमणमित्यर्थः । यदुत तदिदमरुन्तुदं दुःखावहम् । उतेति निन्दा -
द्योतकम् ; स्तब्धोऽस्युतेतिवत् ॥ १२ ॥
इति श्रीमच्छ्रीशैलकुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य
श्री श्रीनिवासविदुषः कृतिषु सुभाषितनीवी -
व्याख्यायां रत्नपेटिकाख्यायां
असेव्यपद्धतिः
पचमी ॥